Kiratpur-Manali Fourlane : किरतपुर– मनाली- चतुष्पंक्तिराजमार्गे विद्युतवाहनानि पूरितानि भविष्यन्ति।
हरितवीथौ शीघ्रमेव उपलप्स्यन्ते चार्जिंग- स्थानकानि।
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
राज्यसर्वकारः शीघ्रमेव किरतपुर-मनाली हरितवीथौ सप्त विद्युत्वाहनचार्जिंगस्थानकानि स्थापितानि भविष्यन्ति। एतानि स्थानकानि राष्ट्रियराजमार्गे स्थापितानि सन्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः प्रथमे बजटभाषणे विद्युत्वाहनस्य स्वीकरणस्य प्रवर्धनस्य उद्देश्यं कृत्वा राज्ये षट् हरितवीथीनां स्थापनायाः घोषणां कृतवान्। इण्डियन ऑयल कार्पोरेशन लिमिटेड इत्यनेन किरतपुर- बिलासपुर- मण्डी- कुल्लू- मनाली- केलाङ्ग ग्रीनकॉरिडोर इत्यत्र घण्डले, दाड़लाघाटस्य समीपे दसेरने, बिलासपुरस्य समीपे नौनी, जडो़ले, नेरचौक- उपमार्गे, कुल्लौ भूतनाथमन्दिरसेतो: सम्मुखे तथा केलाङ्ग इत्यत्र रणनीतिकरूपेण स्थापितानि सन्ति। सप्त- विद्युतवाहनपूरणस्थानकानि स्थापितानि सन्ति।
शिमलातः केलाङ्गं प्रति गच्छन्तः विद्युत्वाहनचालकाः अपि चार्जिंगस्थानकानाम् लाभं प्राप्नुयुः। एतेषां स्थानकानां स्थापनायाः उद्देश्यं उत्तमयानसाधनानाम् प्रचारः अपि च ई-चालकानाम् सुखदयात्रासुविधाः प्रदातुं च अस्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् षट्घोषितासु हरितवीथिषु परवाणू- नालागढ- ऊना- हमीरपुर- देहरा- अम्ब- मुबारकपुर- संसारपुर- टेरेस- नूरपुरम्, पौंटा- नाहन- सोलन- शिमला, परवाणू- सोलन- शिमला- रामपुर- पियो- पूह- ताबो- काजा- लोसर:, शिमला- बिलासपुर- हमीरपुर- कांगड़ा- नूरपुर- बनीखेत- चम्बा, मंडी- जोगिंदरनगर- पालमपुर- धर्मशाला- कांगड़ा- पठानकोटम्, कीरतपुर- बिलासपुर- मंडी- कुल्लू- मनाली- केलांग- जिंगजिंगबार सदृशा: मार्गाः समाविष्टाः सन्ति। एतदतिरिक्तम् अन्येषां पञ्चानां हरितवीथौ पूर्णसञ्चालनार्थं प्रयत्नाः प्रचलन्ति। परिवहनविभागेन अन्येषु प्रस्तावितेषु हरितवीथिषु ४५ अतिरिक्तानि विद्युतवाहन- चार्जिंगस्थानकानि स्थापयितुं निविदाप्रक्रिया आरब्धा अस्ति। एतानि स्थानकानि स्थापयितुं राज्यसर्वकारः निजीसञ्चालकानां कृते ५० प्रतिशतम् अनुदानं प्रदाति।
मुख्यमन्त्री अवदत् यत् वैश्विकतापस्य प्रभावः स्पष्टतया दृश्यते, अतः एतस्याः समस्यायाः निवारणाय पूर्वमेव पदानि ग्रहीतव्यानि। अत एव राज्यसर्वकारः २०२६ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं हिमाचलप्रदेशं हरित ऊर्जाराज्यं कर्तुं प्रतिबद्धः अस्ति। राजीवगान्धी- स्वरोजगारप्रारम्भयोजनायाः अन्तर्गतं ई-टैक्सी, ई-बस, ई-ट्रकयानस्य क्रयणे ५० प्रतिशतं अनुदानं प्रदातुं सहितं विविधाः प्रावधानाः पूर्वमेव कार्यान्विताः सन्ति। सः अवदत् यत् अस्य वर्षादरभ्य सर्वकारीयक्षेत्रे डीजल-पेट्रोल-वाहनानां क्रयणे अपि सर्वकारेण प्रतिबन्धः कृत। मुख्यमन्त्री उक्तवान् यत् ई-वाहनानां प्रचारः उत्तमपरिवहनस्य प्रति सर्वकारस्य समर्पणं प्रतिबिम्बयति, यस्य उद्देश्यं कार्बन उत्सर्जनस्य न्यूनीकरणं, स्वच्छं स्वस्थं च भविष्यं प्रति हिमाचलप्रदेशं हरित ऊर्जाक्षेत्रे अग्रणीराज्यं करणीयम् वर्तते।