अधुना चिकित्सका: आन्दोलनस्य मार्गे, स्वास्थ्यसम्बद्धानां विषयाणां गम्भीरतापूर्वकं समाधानं कुर्यात् सर्वकार:- जयरामठाकुर:
हिमसंस्कृतवार्ता:- शिमला।
पूर्वमुख्यमंत्री एवं विपक्षनेता जयरामठाकुरः अवदत् यत् अद्यापि परीक्षणसुविधानां विषये सम्यक् समाधानं न प्राप्तम्, राज्ये चिकित्सका: आन्दोलनं कर्तुं चर्चां कुर्वन्ति। अस्मिन् विषये सर्वकारेण ध्यानं दातव्यम्। स्वास्थ्यसम्बद्धानां विषयाणां गम्भीरतापूर्वकं समाधानं सर्वकारेण सुनिश्चितं कर्त्तव्यम्। सः अवदत् यत् एतेन सह सर्वकारेण हिमकेयर इत्यत्र जनाः चिकित्सां प्राप्नुयुः इति अपि सुनिश्चितं कर्तव्यम्। यतोहि लम्बित- देयता- कारणात् जनाः चिकित्सां न प्राप्नुवन्ति। विपक्षनेता लोहड़ीपर्वण:, मकरसंक्रांते: उपलक्ष्ये च राज्यस्य सर्वान् जनान् अभिनन्दितवान्। सः अवदत् यत् अहं ईश्वरं प्रार्थयामि यत् राज्यस्य जनाः स्वस्थाः सुखिनः च तिष्ठन्तु।
जयरामठाकुरः अवदत् यत् वज्रचूर्णस्य (सीमेण्ट) मूल्यवृद्धेः अपि सूचनाः प्राप्यन्ते। सम्प्रति राज्यं आपदि गच्छति, पञ्चदशसहस्राधिकानां जनानां गृहाणि सर्वथा नष्टानि सन्ति। गृहनिर्माणे वज्रचूर्णम् महत्त्वपूर्णम् पदार्थम् अस्ति। आपदाभारं वहन्तः जनानां उपरि वज्रचूर्णस्य मूल्यस्य द्विगुणः आघातः सर्वथा अमानवीयः अस्ति। सः अवदत् यत् सर्वकारेण आपदापूर्वं समये अपि वज्रचूर्णस्य मूल्यं वर्धितम्। एतादृशे सति भवननिर्माणसम्बद्धानां वज्रचूर्णस्य मूल्यं वा अन्यप्रकारस्य वस्तो: वा मूल्यं न वर्धते इति सर्वकारेण सुनिश्चितं कर्तव्यं भविष्यति। विपक्षस्य नेता सर्वकारं सावधानं कृत्वा अवदत् यत् जनविरोधिनिर्णयान् ग्रहीतुं त्यक्तव्यम्। यतोहि सत्तां प्राप्तुं पूर्वं सर्वकारेण बहवः प्रतिज्ञाः कृताः अधुना सत्तां प्राप्य जनान् कष्टं जनयन्तः निर्णयाः कर्तुं न शक्नोति।
जयरामठाकुरः अवदत् यत् प्रधानमन्त्री यत्किमपि कार्यं आरभते तदपि समयात् पूर्वं समाप्तं करोति। सम्प्रति मुम्बईनगरे निर्मितः अटलसेतुः अपि अस्य महत् उदाहरणम् अस्ति। २१ किलोमीटर अधिकदीर्घः अटलसेतुः भारतस्य बृहत्तमः सेतुः अस्ति, यः अभिलेखसमये सम्पन्नः अभवत्। कोरोनाकारणात् तस्य निर्माणे विलम्बः जातः अन्यथा अयं सेतुः पूर्वं सज्जः स्यात्। सः अवदत् यत् एषः सेतुः एकः सेतुः अस्ति यः देशस्य वर्तमानं भविष्यं च आकारयिष्यति। अटलसेतुः एकम् निर्माणम् अस्ति यः विकसितभारतस्य मार्गं प्रशस्तं करोति। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य कार्यशैली प्रत्येकस्य कार्यस्य समाप्तेः प्रतिज्ञा अस्ति। तदा एव देशः तान् अन्धं विश्वसति।