राष्ट्रिययुवादिवस:
भारते स्वामी विवेकानन्दस्य जन्मदिवसः अर्थात् १२ जनवरी दिनाङ्कः प्रतिवर्षं राष्ट्रिययुवादिवसरूपेण आचर्यते । संयुक्तराष्ट्रसङ्घस्य निर्णयानुसारंग १९८४ तमे वर्षे ‘अन्तार्राष्ट्रीययुवावर्षम्’ इति घोषितम् । तस्य महत्त्वं विचार्य भारतसर्वकारेण घोषितं यत् १९८४ तः १२ जनवरी अर्थात् स्वामी विवेकानन्दजयन्ती दिवसः सम्पूर्णे देशे राष्ट्रिययुवादिवसरूपेण आचरितव्यः । अस्मिन् दिने देशे सर्वत्र विद्यालयेषु महाविद्यालयेषु च विविधाः कार्यक्रमाः आयोजिताः भवन्ति; योगासनप्रतियोगितायाः आयोजनं भवति; पूजा भवति; व्याख्यानानि भवन्ति; विवेकानन्दसाहित्यस्य प्रदर्शनी अपि भवति।