अर्जुनपुरस्कार: – युवभ्य: प्रेरणादात्री अभवत् कबड्डीक्रीडिका ऋतुनेगी, एशियाई-क्रीडायां देशाय प्राप्तं स्वर्णपदकम्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
अक्तूबरमासे चीनदेशस्य हाङ्गझौऊ-नगरे आयोजितायां एशियाक्रीडायां देशस्य कृते स्वर्णपदकं प्राप्तस्य भारतीयमहिलाकबड्डीदलस्य नायिका, अर्जुनपुरस्कारविजेतृ च ऋतुनेगी परिश्रमस्य आधारेण एतत् पदं प्राप्तवती अस्ति। ऋतु नेगी अद्य सर्वेषां युनां कृते प्रेरणादायिनी अभवत्। हिमाचलप्रदेशस्य सिरमौरमण्डलस्य दूरस्थक्षेत्रे स्थितस्य लघुग्रामस्य ऋतुनेगी द्वारा ९ जनवरी दिनाङ्के देशस्य द्वितीयः बृहत्तमः क्रीडासम्मानः प्राप्तः। ३० मई १९९२ तमे वर्षे पिता भवनसिंहनेगी माता पूर्णिमा नेगी इत्येताभ्यां जन्म प्राप्य ग्रामस्य प्राथमिकविद्यालये शिरोगे प्राथमिकशिक्षां प्राप्तवती।
तदनन्तरं शिल्लाईक्षेत्रस्य राजकीय- वरिष्ठ- माध्यमिक- विद्यालयात् नवमीकक्षाम् उत्तीर्णं कृत्वा बिलासपुर- छात्रावासार चयनं जातम्। यत्र सा क्रीडासु भागग्रहणेन सह स्नातकपदवीं प्राप्नोत्। २०१४ तमे वर्षे सा भारतीयरेलवे इत्यस्मै चयनिता अभवत्। २०२२ तमे वर्षे हरियाणाप्रदेशस्य पानीपतनगरस्य निवासी कबड्डीतारकेण रोहितगुलिया इत्यनेन सह तस्याः विवाहः अभवत्। २०१४तः सा भारतीयरेलवेसङ्घस्य कृते क्रीडति। पिता भवनसिंहनेगी इत्यस्य मते तस्य पुत्र्याः सम्मानः सम्पूर्णस्य हिमाचलस्य कृते गौरवस्य विषयः अस्ति।
राष्ट्रपतितः पुरस्कारप्राप्ति: महती उपलब्धिः- ऋतुनेगी
ऋतुनेगी महामहिमराष्ट्रपतित: पुरस्कारप्राप्ति: महती उपलब्धिः इति अवदत्। एषः प्रत्येकस्य क्रीडकस्य स्वप्नः अस्ति। अद्य क्रीडायाः स्वभावः परिवर्तितः अस्ति, तस्मिन् बहु सम्भावना अस्ति। तत्र उत्तमाः सुविधाः सन्ति। अतः युवानः मादकद्रव्येभ्य: दूरं तिष्ठन्तु, शिक्षया सह क्रीडाक्षेत्रे सक्रियरूपेण भागं गृह्णीयुः।
रितुनेगी वर्यायै शुभकामना