एकसमये निस्तारणनीतिं निर्मीयेत् राज्यसहकारीवित्तकोष: – मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशस्य मुख्यमंत्री सुखविन्दरसिंहसुक्खुः शिमलायाम् हिमाचलप्रदेश-राज्य-सहकारी-वित्तकोषस्य अधिकारिभि: सह गोष्ठीम् अकरोत्। गोष्ठ्यां मुख्यमंत्री ग्राहकाणां सुविधायै एकसमये निस्तारणनीतिं (OTS) निर्मातुं निर्दिष्टवान्। एकसमयनिस्तारणस्य अस्याः नीतेः ५ सहस्राधिकाः जनाः लाभं प्राप्स्यन्ति । अस्मिन् अवसरे सः अधिकारिभ्यः नाबार्ड-भारतीय-रिजर्व-बैङ्क-सहकारेण विस्तृत-एकसमय-निस्तारणन-नीतिं विकसितुं अपि निर्देशं दत्तवान् । सः अवदत् यत् अस्य उपक्रमस्य उद्देश्यं शीघ्रमेव प्रारब्धस्य वित्तकोषेण सह सम्बद्धानां सहस्राणां कृषकाणां, उद्यानपालकानां, अन्येषां च ऋणग्राहिणां कृते पर्याप्तसहायतां प्रदानं वर्तते। अतः ग्राहकाणां सुविधा एव अस्माकमोद्देश्यं भवतु। येन ग्राहका: वित्तकोषस्य सुविधा: दृष्ट्वा आकर्षका: भवेयु: ।
एकसमयनिस्तारणनीतिः वित्तकोषस्य ऋणधारकाणां कृते न्यूनदरेण स्वस्य अवशिष्टधनस्य निर्धारणस्य अवसरं प्रदास्यति। एतेन वैधानिकी कार्यविधि: परिहृता भविष्यति, सफलनिस्तारणानन्तरं तेषां ऋणाङ्के उन्नयनं भविष्यति। एतेन सह अप्रदर्शनसम्पत्त्याः पुनर्प्राप्तिः, ऋणप्राप्ति, वित्तकोषस्य समग्रवित्तीयविकास: च इति लाभं वित्तकोष: प्राप्स्यति। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् काङ्गड़ा-केन्द्रीयसहकारीवित्तकोष: जोगीन्द्र केन्द्रीयसहकारीवित्तकोष: च स्वग्राहकहिताय एतादृशी एकसमयनिस्तारणनीतिं विकसितुं कार्यान्वितुं च एतादृशाः निर्देशाः निर्गताः भविष्यन्ति।