(SSP Mandi) सौम्या साम्बसिबन वरिष्ठपुलिसाधीकिक्षका मण्डी डीआईजी-पदे पदोन्नता
हिमसंस्कृतवार्ता:- मण्डी।
हिमाचलप्रदेशसर्वकारेण भारतीयपुलिससेवाया: त्रयाणां वरिष्ठपुलिसाधिकारिणां पदोन्नते: आदेशा: प्रसारिता:। प्रदेशसर्वकारस्य मुख्यसचिवस्य अधिसूचनाया: अनुसारेण २०१० वर्षस्य संवर्गस्य भारतीयपुलिससेवाया: अधिकारी पुलिसाधीक्षक: बद्दी मोहित: चावला, वरिष्ठपुलिसाधीक्षिका मण्डी सौम्या साम्बसिवन, पुलिसाधीक्षक: सतर्कताविभाग: मण्डी राहुलनाथ: च एतेषां त्रयाणां वरिष्ठपुलिसाधिकारिणां पदोन्नति: नियमिताधारेण उपमहानिरीक्षकस्य (डीआईजी) पदे जाता अस्ति। त्रयाणां वरिष्ठपुलिसाधिकारिणाम् अग्रिमनियुक्ते: आदेशा: पृथक्तया निर्गता: भविष्यन्ति।
(SSP Mandi) सौम्या साम्बसिबन वरिष्ठपुलिसाधीकिक्षका मण्डी डीआईजी-पदे पदोन्नता
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment