Gagal airport प्रस्तावितस्य गग्गलविमानपत्तनस्य विस्तारस्य पुनर्वास-एवं-पुनर्स्थापन-योजनायां उच्च-न्यायालयस्य प्रतिबन्ध:
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
राज्य उच्चन्यायालयेन मंगलवासरे श्रवणकाले गग्गलविमानपत्तनस्य विस्तारार्थं प्रस्ताविता पुनर्वास-पुनर्स्थिपनयोजनायाः (R&R) स्थगिता अस्ति। न्यायालयेन अग्रिमश्रवणपर्यन्तं प्रकरणे यथास्थितिः स्थापयितुं आदेशः दत्तः अस्ति। अग्रिमं श्रवणम् फरवरी-मासस्य २९ दिनाङ्के भविष्यति। विस्तारार्थं प्रदत्तं सामाजिकप्रभावमूल्यांकनप्रतिवेदनं, विशेषज्ञसमूहप्रतिवेदनं, प्रौद्योगिकी-आर्थिकसाध्यताप्रतिवेदनं च उच्चन्यायालये प्रतिवादितमासीत् ।
एतदतिरिक्तं विमानस्थानकं भूकम्पीयक्षेत्रे भवितुं कारणात् विस्ताराय निर्मितस्य टेक्नो-आर्थिक-साध्यता-प्रतिवेदनस्य (TEF) विषये IIT Roorkee-इत्यस्य परामर्शस्य निर्देशाः अपि न पूर्णाः राज्यसर्वकारस्य महाधिवक्ता अनूपकुमाररत्नः अवदत् यत् न्यायालयेन विमानस्थानकविस्तारस्य विषये क्रियमाणायाः पुनर्वास-एवं-पुनर्स्थापन-योजना अग्रिमश्रवणपर्यन्तं स्थगिता अस्ति। अग्रिमे श्रवणे सर्वकारस्य पक्षः न्यायालयस्य समक्षं प्रस्तुतः भविष्यति।