विश्व-हिन्दी-दिवसः
विश्व-हिन्दी-दिवसः प्रतिवर्षं जनवरी-मासस्य १० दिनाङ्के आचर्यते । विश्वे हिन्दीभाषायाः प्रचारार्थं जागरूकतां जनयितुं, हिन्दीभाषाम् अन्तार्राष्ट्रीयभाषारूपेण प्रस्तोतुं च अस्य दिवसस्य उद्देश्यम् अस्ति । विदेशेषु भारतीयदूतावासेषु विशेषतया अस्मिन् दिने कार्यक्रमा: भवन्ति। सर्वेषु सर्वकारीयकार्यालयेषु विभिन्नविषयेषु हिन्दीभाषायां व्याख्यानानां आयोजनं भवति। विश्वे हिन्दीभाषायाः विकासाय प्रचाराय च विश्वहिन्दीसम्मेलनानाम् आरम्भः अभवत् तथा च प्रथम-विश्व-हिन्दी-सम्मेलनस्य आयोजनं नागपुरे १० जनवरी १९७४ तमे वर्षे अभवत् ततः परं अयं दिवसः ‘विश्व-हिन्दी-दिवसः’ इति नाम्ना आचर्यते। एतदतिरिक्तं विश्वः हिन्दीसचिवालयः मॉरिशसदेशे स्थितः अस्ति ।
इतिहास:
१९७५ तमे वर्षे तत्कालीनप्रधानमन्त्री इन्दिरागान्धी प्रथम-विश्व-हिन्दीसम्मेलनस्य उद्घाटनं कृतवती । १९७५ तमात् वर्षात् भारत-मॉरिशस-यूनाइटेड-किंगडम-त्रिनिदाद-टोबैगो-संयुक्तराज्य-अमेरिकादिषु विभिन्नेषु देशेषु विश्वहिन्दीसम्मेलनस्य आयोजनम् अभवत् । विश्वहिन्दीदिवसः प्रथमवारं २००६ तमस्य वर्षस्य जनवरी-मासस्य १० दिनाङ्के आचरितः । ततः परं प्रतिवर्षं जनवरी-मासस्य १० दिनाङ्के विश्वहिन्दी-दिवसः आचर्यते । भारतस्य पूर्वप्रधानमन्त्री मनमोहनसिंहः २००६ तमे वर्षे जनवरीमासे १० दिनाङ्कं प्रतिवर्षं विश्वहिन्दीदिवसरूपेण आयोजयितुं घोषितवान् आसीत् । ततः परं भारतीयविदेशमन्त्रालयेन प्रथमवारं विदेशेषु १० जनवरी २००६ तमे वर्षे विश्व-हिन्दी-दिवसः आचरितः ।
अनन्ता: शुभकामना: