राष्ट्रपति-भवने क्रीडापुरस्काराणां कार्यक्रम:, क्रीडकैः भिन्न- भिन्न- क्रीडासु प्राप्तः पुरस्कारः
राष्ट्रपति-पदासीना द्रौपदी-मुर्मु: राष्ट्रपति-भवने एकस्मिन् कार्यक्रमे विंशति: त्रयोविंशति: वर्षस्य राष्ट्रिय- क्रीडा- साहसिक- पुरस्कारान् प्रदत्तवती। एतेषु क्रीडकेषु क्रिकेट- कीडकः मोहम्मद-शमी, चतुरंग- क्रीडिका आर.वैशाली, धनुर्धरौ ओजस-प्रवीण: देवताले-अदिती-गोपीचन्द स्वामिनौ गोल्फ- क्रीडिका दीक्षाडागरः, कबड्डी- क्रीडकौ ऋतुनेगी, पवन-कुमारौ च सम्मिलिताः सन्ति, ये अर्जुन- पुरस्कारेण सम्मानिताः जाता:। इतः परं हॉकीति क्रीडकौ पी.सुशीला चानू कृष्ण बहादुर पाठकौ, खो-खो क्रीडिका नसरीनः, लॉन- बाल्स- क्रीडिका पिंकी, गुलिका प्रक्षेपकौ ऐश्वर्य प्रतापसिंहः एशा सिंहः च, स्क्वैश- क्रीडकः हरिन्दरपाल-सिंह-संधू, टेबल- टेनिस इति क्रीडिका अहिका- मुखर्जी, मल्ल- क्रीडकौ सुनीलकुमारः अन्तिमः च, वुशू- क्रीडिका एन. रोशीबिना देवी, दृष्टिबाधितः दिव्यांग- क्रिकेट- क्रीडकः इल्लूरी अजय- कुमार- रेड्डी, दिव्यांग- शरप्रक्षेपिका शीतलदेवी, केनाइंग- क्रीडिका प्राचीयादवः च अर्जुन- पुरस्कारं प्राप्तवत्यः।