महाभारतकथा (उद्योग पर्व:) कुन्ती कर्णयोः संवादः युद्धस्य च दृढनिश्चयः।
दिलीप:, संस्कृतशिक्षकः,शिक्षाविभागः हि.प्र.
यदा सर्वप्रयत्ना: असफला: अभवन्, युद्धनिवारणसम्भावना न आसीत् तदा श्रीकृष्णस्य परामर्शेण माताकुन्ती कर्णेन सह मिलितुं अगच्छत्। कर्ण: उवाच- हे देवी ! अहं कर्णः राधाधिरथपुत्रः प्रणमामि ते पादौ | कस्मात् कष्टं त्वं इह आगतासि ब्रूहि ! कथं सेविष्यामि । कुन्ती उवाच- कर्ण ! न त्वं राधापुत्रः त्वं तु कुन्तीपुत्रः । मम पुत्रोऽसि त्वम्!! पिता तव न अधिरथः , न त्वं सुत्कुले जातोऽसि। मम एतत् वचनं सम्यक्तया स्वीकुरु। मम कुमारीकाले मम गर्भात् प्रथमः पुत्रः जातः । महाराज कुंतीभोजस्य गृहे निवसन् मया भवतः गर्भधारणं कृतम्, अतः पुत्र! त्वं पार्थः असि। कर्ण! अयं जगतः प्रकाशोष्णप्रदः सूर्यः मम गर्भात् भवद्विधं शूरं पुत्रं शस्त्रधारिषु श्रेष्ठं जनित: । परिश्रमी पुत्र ! अहं त्वां पितुः गृहे प्रसूतवती । जन्मात् आरभ्य त्वं कुण्डल-कवचधारि देवबालवत् सुन्दरोऽसि । पुत्र ! सङ्गात् धृतराष्ट्रपुत्रान् सेवसे भ्रातृअविज्ञा न कदाचिदर्हसि ।
सर्वं श्रुत्वा कर्णः कुन्तीं अवदत् यत् दुर्योधनात् मम बहवः अनुग्रहाः सन्ति येन अहं तं त्यक्तुं न शक्नोमि तथा च अहं भवत्या: वचनं ददामि यत् भवत्या: वयं षट् पुत्राः सन्ति अहं केवलं अर्जुनेन सह पूर्णशक्त्या युद्धं करिष्यामि। यतः मम तेनैव सह वैरं वर्तते, अन्येषां भ्रातृणां किमपि हानिं न करिष्यामि। अतः अर्जुनः म्रियते अहं वा म्रियते अपि भवतः पञ्च पाण्डवाः एव जीविताः भविष्यन्ति।
सर्वे प्रयत्नाः सफलाः अभवन्, कुन्तिः निराशा प्रत्यागतवती, युद्धं च निश्चितम् आसीत् । रात्रौ दुर्योधनः मित्रैः सह सम्भाषणं कृत्वा भीष्मं कौरवसेनापतिं कृतवान् । अस्मिन् विषये कर्णः प्रतिज्ञा कृतवान् यत् भीष्मे युद्धक्षेत्रे स्थिते सति सः शस्त्राणि न ग्रहीष्यति । अन्ते च भीष्मः सेनापतिपदं स्वीकृतवान्, परन्तु सः पाण्डवानां वधं न करिष्यामि, अपितु पाण्डवसेनायाः वधं करिष्यामि इति स्पष्टं कृतवान् । एतस्मिन् समये भगवान् वेद्व्यासः धृतराष्ट्रं मिलितुं आगतः । धृतराष्ट्रः वीराणां शौर्यं श्रोतुम् इच्छां प्रकटितवान् । व्यासः संजयाय दिव्यं दर्शनं दत्त्वा धृतराष्ट्राय अवदत् यत् अत्र उपविश्य युद्धस्य सर्वाणि वार्ता: ज्ञातुं शक्ष्यति ।