आदित्य एल-1 इसरो द्वारा तस्य अन्तिमायां निर्धारितकक्षायां स्थापितः
भारतीयान्तरिरक्षानुसन्धान-संघटनेन भारतस्य प्रथमं सौराभियानं आदित्य एल-१ इति उपग्रहः तस्य अंतिमायां निर्धारित कक्षायां स्थापितः । इसरोइत्यनेन संघटनेन संसूचितं यत् आदित्य-एल-वन इति उपग्रहः अद्य एल-वन-बिन्दुं सम्प्राप्तवान्। ध्यातव्यमस्ति यत् एल-वन्-इति बिन्दुः पृथिवीतः भूयोऽपि पञ्चदश-लक्ष-किलोमीटरमितं यावत् दूरे स्थितास्ति अस्मात् स्थानात् सूर्यस्य दूरतापि पञ्चदशलक्षकिलोमीटरमितमेव अस्ति। अवधेयं वर्तते यत् आदित्य एल वन् इति उपग्रहः आन्ध्र प्रदेशस्य श्रीहरिकोटायाः गतवर्षस्य सितम्बरमासस्य द्वितीये दिनांके प्रक्षेपितः। अनुमानमिदमासीत् यत् अयं उपग्रहः अग्रिम-पञ्चवर्षाणि यावत् स्वीय कक्षायामेव भविष्यति। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी स्वीय-आशीर्वचोभिः इसरोसंघटनम् अभिसिञ्चितवान्। विश्वासमिपि अभिव्यक्तवान् यत् अस्माभिः विज्ञानस्य नवीन सीमा अपि प्राप्स्यते। केन्द्रीय- विज्ञान-प्रौद्योगिकी मन्त्री डॉ. जितेन्द्रसिंहः कथितवान् यत् एतत् भारतय गर्वयुतं वर्षं अस्ति यतोहि प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे राष्ट्रेण एका महत्वपूर्णा सफलता समर्जिता। यतः आदिय एल. वन. इति उपग्रहः स्वीयायां अन्तिमायां कक्षायां प्रविशत्। अपि च पृथ्वी-सूर्ययोः सम्बन्धे अन्वेषणं करिष्यति। आदित्य एल. वन. उपग्रहः सूर्यस्य कोरोना इत्याख्यस्य निरीक्षणाय अध्ययनाय च सम्प्रेषितः भारतस्य प्रथमः सौराभियानस्य उपग्रहो वर्तते।
आदित्य एल-1 इसरो द्वारा तस्य अन्तिमायां निर्धारितकक्षायां स्थापितः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment