विश्व-ब्रेल-दिवसः
विश्व-ब्रेल-दिवस: अन्तार्राष्ट्रीयदिवसः अस्ति, य: जनवरीमासस्य चतुर्थे दिनाङ्के आचर्यते। अयं दिवस: अन्धदृष्टिविकलाङ्गजनानां मानवाधिकारस्य पूर्णसाक्षात्कारे संचारसाधनरूपेण ब्रेलस्य महत्त्वस्य विषये जागरूकतां जनयितुं च आचर्यते। अस्य आयोजनस्य तिथिः संयुक्तराष्ट्रसङ्घस्य महासभायाः नवम्बर २०१८ तमे वर्षे घोषणायाः माध्यमेन चयनिता, यतोहि अस्मिन् दिने अस्याः लेखनव्यवस्थायाः निर्माता लुईस् ब्रेल इत्यस्य जन्मदिनम् अस्ति। प्रथमः विश्वब्रेल-दिवसः २०१९ तमस्य वर्षस्य जनवरीमासस्य ४ दिनाङ्के आचरितः।