प्रधानमन्त्रिणा नरेन्द्रमोदी लक्षद्वीपस्य कावारत्ती-स्थले अनेकासां विकासात्मक-परियोजनानां शुभारम्भः शिलान्यासः च कृतवान्।
प्रधानमन्त्री नरेन्द्रमोदी विगत-मध्याह्ने केरल-राज्यस्य त्रिशूर-मण्डले सम्प्राप्तवान्, यत्र सः थेक्किंकडु-उद्याने भाजपा इति दलेन आयोजिते “मोदिना सह महिला-शक्ति:” इत्यास्मिन् महिला सम्मेलने भागं भजितवान्। प्रधानमन्त्रिणा नरेन्द्रमोदिना लक्षद्वीपस्य कावारत्ती-स्थले अनेकासां विकासात्मक- परियोजनानां शुभारम्भः शिलान्यासः अपि च संस्थापित:। एताषु परियोजनासु पञ्चाशदधिक- एकादशसहस्र- कोटिरूप्पकाणां पेयजलापूर्ति- सौरोर्जा- सदृशाः परियोजनाः अपि सम्मिलिताः सन्ति। कोच्चि- लक्षद्वीपयोर्मध्ये उल्लिखितानां परियोजनानां सब्मरिन- ऑप्टिकल- फाइबर- सम्पर्कः दूरस्थेषु द्वीपेषु निवसितेभ्यः जनेभ्यः महत्वपूर्ण- रूपेण पुष्टिगतो भविष्यति। तेभ्यः तीव्र-अन्तर्जालसेवा अपि मेलिष्यति। अपरत्र, पेयजलापूर्ति- सदृशा द्वितीया परियोजना अगति- मिनीकॉय- द्वीपयोः सर्वेषु गृहेषु जलसौविध्यं प्रदास्यति। अनेन लक्षद्वीपे पर्यटन- सौविध्यं समुचितं भविष्यति। युवानः अपि वृत्तियुताः भविष्यन्ति। मोदिना प्रथमायाः बैट्रीचालित- सौरार्जा- परियोजनायाः अपि लोकार्पणं विहितम्, अनेन डीजलेन्धनाधारित- विद्येतोपादन- संयन्त्रेषु द्वीपस्य निर्भरतायाः अपचितिः भविष्यति। प्रधानमन्त्रिणा कावारत्ती इत्यत्र भारतीय- रिजर्व- बटालियन- इत्याख्यस्य नवीन- प्राशासनिक- खण्डस्य अशीति- जनानां क्षमतायुतस्य प्रकोष्ठस्यापि उद्घाटनं कृतम्। असौ काल्पेनी- स्थले प्राथमिक- स्वास्थ्यकेन्द्रस्य नवीनीकरणस्य एंद्रोथ- चेटलेट- कदमत- अधाति- मिनीकॉय- द्वीपेषु आंगनवाड़ी केन्द्राणां च आधारशिलां संस्थापितवान्।
प्रधानमन्त्री नरेन्द्रमोदी केरलस्य त्रिशूर्नगरे महिलासम्मेलनं सम्बोधितवान्।
सः अवदत्–महिलानां जीवनं सुलभं कर्तुं तस्य सर्वकारेण कमपि क्षेत्रं न त्यक्तम् प्रधानमन्त्री नरेन्द्रमोदी केरलस्य त्रिशूर्नगरे मार्गप्रदर्शनं कृतवान्। प्रधानमन्त्रिणः दर्शनार्थं त्रिशूरस्य स्वराजगोलम् उभयतः सहस्राणि जनाः एकत्रिताः आसन्। भारतीयजनतापार्टी महिलामोर्चाद्वारा आयोजितं ‘स्त्रीशक्तिमोदीकोप्पम’ इति नाम्ना महिलानां विशालसमागमं सम्बोधयितुं प्रधानमन्त्री थेक्किकडु-प्राङ्गणं प्राप्तवान्। सांसद पीटी उषा, अभिनेत्री शोभना, दलनेता प्रकाशजावडेकरः, प्रदेशाध्यक्षेण के सुरेन्द्रन, पूर्वसांसदः सुरेशगोपी सहितं बृहद् संख्यायां महिलाभिः भागः ग्रहीतः। प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वातन्त्र्यानन्तरं बहुवर्षपर्यन्तं केरलदेशे शासनं कृतवन्तः वामप्रजातान्त्रिकमोर्चा-एलडीएफ-संयुक्तलोकतान्त्रिकमोर्चा-यूडीएफ-सर्वकाराणाम् आलोचनां कृता यत् तैः महिलानां मूलभूतसुविधाः अधिकाराः च वंचिताः ।