हिट्-एण्ड्-रन-प्रकरणानाम् विषये राष्ट्रव्यापी ट्रकचालकानां विरोधस्य समाप्तिः अभवत् । परिवहनकर्तृणां चिन्तानां विषये चर्चां कर्तुं सर्वकारः आश्वासनं दत्तवती ।
हिमसंस्कृतवार्ता: – डॉ नरेन्द्रराणा सिरमौर: ।
हिट्-एण्ड्-रन-प्रकरणेषु वर्धित-दण्डस्य विरुद्धं परिवहनकर्तृभिः राष्ट्रव्यापी-विरोधाः समाप्ताः यतः केन्द्रेण आश्वासनं दत्तं यत् तै: सह प्रावधानानाम् कार्यान्वयनात् पूर्वं चर्चा भविष्यति । गृहमन्त्रालयेन अखिलभारतीयमोटरपरिवहनकाङ्ग्रेसेन सह नवदेहल्ल्यां भारतीयन्यायिकसंहितायां हिट्-एण्ड्-रन-प्रकरणेषु नूतनप्रावधानसम्बद्धचिन्तानां विषये चर्चा कृता। सभायाः अध्यक्षतां कृत्वा गृहसचिवः अजयकुमारभल्लाः अवदत् यत् सद्यः पारितस्य भारतीयन्यायिकसंहितायां हिट्-एण्ड्-रन-प्रकरणेषु नूतनाः प्रावधानाः अद्यापि कार्यान्विताः न सन्ति। ट्रक-टैक्सी-बस-सञ्चालकाः हिट्-एण्ड्-रन-प्रकरणेषु ७ लक्षरूप्यकाणां दण्डस्य, १० वर्षाणां कारावासस्य च प्रावधानस्य विरोधार्थं त्रिदिवसीय-विरोधं कृतवन्तः आसन् । यस्य अधुना समाप्ति: सञ्जाता ।
बहुशोभनम्