सत्पुरुषः – आत्मौपम्येन सर्वत्र । जगति प्रत्येकं जनानां सुखं, दुःखं, लाभः, हानिः, जयः, पराजयः, रोगः, आरोग्यः इत्यादिभ्यः प्राप्तः अन्तःकरणस्थः अनुभवः समानः भवति । परेषां सुखदुःखादिकं यः आत्मनि अनुभवति स सत्पुरुषः कथ्यते । वस्तुतः स हि महात्मा आख्यायते, यः समस्तब्रह्माण्डे स्वकीयम् आत्मानं व्यापकं पश्यति । एकदेशीयम् अथवा शरीरे हि आत्मानं सीमिततया यः पश्यति स न महात्मा, अपितु अल्पात्मा उच्यते । एतादृशः अल्पात्मा पुरुषः, महात्मा इव समस्तप्राणिषु स्थितं सुखदुःखादिकम् अनुभवितुं न शक्नोति । तस्मिन् सहानुभूतिः, समवेदना इत्यादीनां महतां गुणानां नितराम् अभावः परिलक्ष्यते । समदर्शि-महापुरुषस्य विषये भगवता गीतायां प्रोक्तं यत् –
‘सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।।’ इति ।
इयं समदर्शितायाः स्थितिः, अथवा समतायाः अनुभवो भगवत्कृपातो हि सम्भवति । एतादृशस्य समभावस्य प्राप्त्यर्थं भगवत्स्मरणपूर्वकं सुदृढा साधना कर्तव्या । भक्तिसिद्धान्तानुसारम् – यदि अखिल संसारं हि भगवत्स्वरूपं मत्वा जगतः सततं हितसेवा आचर्यते, तर्ह्यपि शनैः अन्तःकरणे समताभावस्य जागरणं सम्भवति । गोस्वामी तुलसीदासो न्यगदत् –
‘सो अनन्य जाके असि मति न टरै हनुमंत ।
मैं सेवक सचराचर रूप स्वामी भगवंत ।।’ इति शुभम् ।
— नारदः ।
सत्पुरुषः – आत्मौपम्येन सर्वत्र
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment