चम्बा- संस्कृतशिक्षकाणां प्रशिक्षणम्- जिला शिक्षा एवं प्रशिक्षणसंस्थाने चम्बायां हिमाचलप्रदेशस्य ६० संस्कृतशिक्षकाणां प्रचलति प्रशिक्षणम्
हिमसंस्कृतवार्ता:- चम्बा।
समग्रशिक्षाहिमाचलप्रदेशः संस्कृतशिक्षकाणां कृते राज्यस्तरीय- प्रशिक्षणकार्यशालायाः आयोजनं चम्बाजनपदस्य जिलाशिक्षाप्रशिक्षणसंस्थाने सरु इत्यत्र कुर्वन् अस्ति। एतत् प्रशिक्षकप्रशिक्षणं 27/12/2023 तः 31/12/2023 पर्यन्तम् आयोजितम् अस्ति। अस्मिन् सम्पूर्ण हिमाचलस्य ६० सर्वकारीयसंस्कृतशिक्षकाः भागं गृह्णन्ति। अस्मिन् पञ्चदिवसीयप्रशिक्षणे घटमानानां कार्याणां विषये बोधयन् डॉ. मनोजशैलः अवदत् यत् संस्कृतविषयसम्बद्धाम् आधुनिकस्थित्यानुसारं शिक्षकान् सज्जीकर्तुं समग्रशिक्षाहिमाचलस्य एष: प्रशंसनीय: उपक्रमः अस्ति। अस्मिन् शिक्षकान् शिक्षानीतिः, राष्ट्रिय उपलब्धिसर्वेक्षणक्षेत्रवारसमस्याः तेषां सम्भाव्यसमाधानं च तथा च आधुनिकसाधनानाम् उपयोगेन छात्राणां कृते स्वविषयं प्रभावीरूपेण प्रसारयितुं विविधाः पद्धतयः प्रशिक्षिताः सन्ति। अस्यां कार्यशालायां डॉ. शिवकुमारः राज्यसंसाधनव्यक्तिरूपेण शिक्षानीति २०२०, व्यावहारिकसंस्कृतं, मूल्याङ्कनविषयेषु चर्चां कृतवान्, ललितशर्मा उच्चमाध्यमिकस्तरस्य शिक्षाशास्त्रीयप्रक्रिया:, पठनकौशलं, उच्चमाध्यमिकस्तरस्य साहित्यिकसामग्रीप्रयोगः, डॉ. अमनदीपः सरलमानकसंस्कृतं, संस्कृतसम्भाषणम्, काव्यपाठविधिः, अध्यापनक्षेत्रे प्रौद्योगिक्याः प्रयोगः, डॉ. अमित शर्मा, लेखनकौशलविषये, डॉ मनोजशैल: संस्कृतशिक्षणे मूल्याङ्कनम्, डॉ. देवर्षि अगस्त्यः प्रथमद्वितीयतृतीयभाषारूपेण संस्कृतं, नाटकशिक्षणं, व्याकरणशिक्षणस्य प्रायोगिकं ज्ञानं डॉ. कमलकान्त: भाषणकौशलम्, गद्यपाठनम् व्याकरणपाठस्य प्रविधय: एतेषु विषयेषु सत्रं गृहीतम्। प्रशिक्षणं प्राप्तुं ये शिक्षकाः आगताः ते अपि उत्साहेन भागं गृहीतवन्तः।
अध्यापनसामग्रीणां व्यावहारिकपक्षं प्रतिदिनं विविधक्रियाभिः सुदृढं भवति स्म। श्रव्य-दृश्य-सामग्रीणां उपयोगेन पाठ्यक्रमं कथं छात्राणां कृते विविधरीत्या सुलभं कर्तुं शक्यते इति प्रयोगात्मकपद्धत्या प्रशिक्षणं दत्तम्। मनोजशैलेन एतत्प्रकारस्य प्रशिक्षणस्य कृते। राज्यपरियोजनानिदेशकस्य राजेशशर्मण:, राज्यप्रशिक्षणसमन्वयिकाया: सोनियाशर्मामहोदयाया:, जिला- परियोजना-अधिकारिण: सुमनकुमारमिन्हासस्य अपि च जिलाशिक्षकप्रशिक्षणप्रमुखस्य ओंकारवर्मण: आभार: प्रकटित:।
संयोजक: जिलाशिक्षक-प्रशिक्षणप्रमुख: ओंकारवर्मा अस्यै कार्यशालायै राज्य समग्रशिक्षाहिमाचलप्रदेशस्य आभारं प्रकटितवान्। सः अवदत् यत् चम्बायां एतादृशी प्रथमा कार्यशाला आयोजिता यत्र राज्यस्य सर्वेभ्यः जनपदेभ्य: शिक्षकाः समागताः सन्ति। चर्चासु सर्वे भागं गृह्णन्ति, एतादृशं वातावरणं कार्यशालायाः दृष्ट्या महत्त्वपूर्णं भवति, संस्थायाः छात्राणां कृते अपि प्रेरणादायकं वर्तते। सम्पूर्णा कार्यशाला संस्कृतमाध्यमेन संस्कृतशिक्षकैः संचालितं कृतम्। यस्य प्रारम्भिकसत्रे संस्कृतप्रार्थनाः, संस्कृतभाषायां वार्ता इत्यादयः पठ्यन्ते।