राष्ट्रपतिः द्रौपदी मुर्मू त्रयः नवीनाः आपराधिकविधेयकाः २०२३ इति अनुमोदितवती
हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: ।
राष्ट्रपतिद्रौपदी मुर्मू भारतीयन्यायिकसंहिता, भारतीयनागरिकरक्षासंहिता, भारतीयसाक्ष्यविधेयक २०२३ इति त्रय: नवीना: आपराधिकविधेयका: अनुमोदितवती। अवधेयं वर्त्तते यत् संसदः गतसप्ताहे आपराधिकन्यायसम्बद्धानि एतानि त्रीणि नवीनविधेयकानि पारितवती आसीत्।
नवीन-अधिनियमेषु प्रथमसूचनाप्रतिवेदनात् आरभ्य न्यायालयस्य निर्णयपर्यन्तं सम्पूर्णप्रक्रियायाः डिजिटलीकरणस्य विषये अस्ति।
नूतनेषु नियमेषु उन्मत्तजनसमूहेन हत्यायाः सन्दर्भे मृत्युदण्डस्य व्यवस्था अस्ति। स्त्रीणां बालकानां च सुरक्षायाः कृते बहवः प्रावधानाः कृताः। भारतीयन्यायसंहितायां १८ वर्षाणाम् अधः महिलायाः बलात्कारस्य अपराधस्य आजीवनकारावासस्य मृत्युदण्डस्य च व्यवस्था अस्ति।
सामूहिकबलात्कारस्य प्रकरणेषु २० वर्षाणां कारावासस्य अथवा आजीवनकारावासस्य च प्रावधानमस्ति। नूतन-आपराधिकन्यायव्यवस्थायाः अन्तर्गतं प्रथमवारं आतङ्कवादस्य परिभाषा कृता।