सत्पुरुषः श्रीदादूजी परमः भगवन्नामप्रेमी
इहभूमौ समये समये आदर्शपुरुषाः आविर्भवेयुः इति तु काचित् लोकपरम्परा एव। कस्यचन विशेषकार्यार्थं ते भुवि अवतरेयुः। एतादृशः कश्चन सत्पुरुषः भारते आविर्भूतः, यस्य महाभागस्य नाम श्रीदादूजी आसीत्।
अहमदाबादे भक्तश्रेष्ठः लादूरामनामधेयः एकः ब्राह्मणसज्जनः बभूव। तस्य न कापि सन्ततिः। सः धन्यः दिवसः आसीत् सं० १६०१ वि० श्रीचैत्र- शुक्लाष्टमी, गुरुवासरः। तदा स्नानसमये लादूरामः सावरमतीनद्यां प्रवहन्तीम् एकां पेटिकां दृष्टवान्, तां स्वीकृतवान् च। तां नद्याः बहिरानीय उद्घाट्य च दृष्टवान् यत् तत्र एकः ज्योतिर्मयः शिशुः मोदमानः हसन्नस्ति इति। विप्रः लादूरामः तं शिशुं गृहं प्रति आनीतवान्। अनुग्रहपूर्वकं प्रभुः आत्मने दिव्यशिशुम् अदात् इति मत्वा तौ मोदमानौ दम्पती शिशोः स्नेहोल्लासेन सयत्नं पालन-पोषणादिकं कर्तुम् आरब्धवन्तौ। सः बालकः अद्भुतः आसीत्। एकादशवर्षीयः सः श्रीकृष्णस्य दिव्यदर्शनं प्राप्तवान्। गीतोपदेष्टा श्रीभगवान् तस्मै बालाय दादवे तत्त्वज्ञानम् प्रदत्तवान्। स्वाभाविकतया हि दादूः सहजस्वभावयुक्तः, विरक्तश्च आसीत्, बाल्यप्रभृति हि तस्य कृते भगवन्नाम प्राणधनम् आसीत्। तत्त्वज्ञानस्य प्राप्तेरनन्तरं सः यद्यपि गृहतः पलायितुं प्रायतत, तथापि पिता तम् अनुकुर्वन् निगृह्य च तं पुनः गृहं प्रति आनीतवान्। तदनन्तरं बलात् तस्य विवाहमपि कारितवान् । परन्तु अनेन सांसारिक-प्रयासेन कञ्चन नित्यमुक्तं पुरुषं बद्धुं को वा शक्नुयात्? उनविंशतितमे वयसि सः पुनर्गृहत्यागं विधाय विविधेषु स्थानेषु पर्यटनं कर्तुमारभत्। श्रीदादूः स्वयं न कमपि सम्प्रदायं प्राचालयत्। सहजरूपेण हि तस्य अनेके शरणापन्नाः शिष्याः अभूवन्। कालान्तरे ते शिष्याः हि तेषां तत्सम्प्रदायस्य नाम ‘ब्रह्मसम्प्रदायः’ इति कृतवन्तः। परन्तु तत्सम्प्रदायः ‘दादू-पंथ’ इति नाम्ना प्रसिद्धः जातः लोके। श्रीदादोः शिष्याः बहवः आसन्, तेषु १५२ जनाः मुख्याः अमन्यन्त। एतेष्वपि १०० जनाः वीतरागाः। तस्य महाभागस्य न पीठं, न वा शिष्यपरम्परा हि। अन्ते ५२ जनाः पीठं प्रतिष्ठापितवन्तः, ते शिष्यपरम्परामपि प्राचालयन्। अतः ते ‘थांवाधारी’ इति नाम्ना ख्याताः अभवन्। साधुः दादूमहाभागः स० १६६० वि० ‘नारायणा’ इति नामके स्थाने परमगतिं लब्धवान्। सः महान् वैरागी, परोपकारी, एवं क्षमाशीलः सत्पुरुषः आसीत्। तस्य उदात्तभावनायाः कारणतः तं ‘दादूदयाय’ इति कथयन्ति स्म तदानीन्तनाः जनाः। मृत्योः पूर्वं सः शिष्यान् परामृष्टवान् आसीद् यत् एतत् शरीरं भवन्तः मांसभोजिभ्यः पशुपक्षिभ्यः ददतु इति। एतावान् वीतरागः, परोपकारी च सः परमधन्यतां गतः महाभागः अवर्तत्।
‘हरि भज साफल जीवना, पर-उपगार समाइ ।
‘दादू’ मरणा तहं भला, जहां पशु-पंछी खाइ ।।’
इति।
-नारद।