श्रीरामायणकथा, लङ्काकाण्डम्! (द्विपञ्चाशत्तमः सर्गः) रामरावणयोः द्वैरथयुद्धम्
अत्रान्तरे समरे युद्धपरिश्रान्तं चिन्तया स्थितं श्रीरामम् अग्रतः युद्धाय च समुपस्थितं रावणं दृष्ट्वा भगवान् अगस्त्यः श्रीरामस्य पुरतः आगत्य तस्य विजयार्थं तस्मै विजयमन्त्रम् अददात्।
अपरत्र रावणस्य हृष्टः सारथिः परसैन्यप्रधर्षणं युद्धोपकरणैः पूर्णं पताकाध्वजमालिनं रथं नीत्वा श्रीरामस्य पुरतः स्थितः अभवत्। तदा सहसा तम् आपतन्तं राक्षसराजस्य महाध्वजं रथं नरराजः श्रीरामः अपश्यत्। आपतन्तं मेघसङ्काशं रिपोः तं रथं दृष्ट्वा श्रीरामः वेगेन धनुः विस्फारयन् मातलिम् अब्रवीत् हे मातले! रिपोः संरब्धम् आपतन्तं रथं पश्य। महता वेगेन पतता समरे पुनः आत्मानं हन्तुं राक्षसाधमेन मतिः कृता। त्वं शत्रोः रथं प्रति उद्गच्छ, अद्य अहं तं विध्वंसयितुम् इच्छामि।
त्वम् असम्भ्रान्तः अविक्लवः अव्यग्रहृदयः सन् द्रुतं रथं प्रचोदय। कामं त्वं देवराजस्य सारथिः, अहं च युयुत्सुरेकाग्रः इत्यतः त्वां स्मारये न तु शिक्षये। श्रीरामस्य तेन वाक्येन सन्तुष्टः देवसारथिः मातलिः शीघ्रं रावणस्य पुरतः रथं नीत्वा अगच्छत्। पुरतः श्रीरामं दृष्ट्वा क्रुद्धः दशग्रीवः बाणैः तं पीडयितुम् आरभत। रावणबाणैः पीडितः सन्नपि श्रीरामः धैर्येण युद्धे महद् ऐन्द्रधनुः सुमहावेगान् सूर्यरश्मिसमप्रभान् च शरान् अगृह्णात्। ततः तयोः अन्योऽन्यवधाकाङ्क्षिणोः महद् युद्धम् आरभत। ततः रावणक्षयकाङ्क्षिणः देवाः गन्धर्वाः सिद्धाः परमर्षयः च तयोः द्वैरथं युद्धं द्रष्टुं समागताः अभवन्।
रामरावणयोः तदा सर्वलोकभयावहं सुमहद् द्वैरथं युद्धं प्रवृत्तम् अभवत्। ततः प्रगृहीतप्रहरणं राक्षससैन्यं वानराणां च महद्बलं निश्चेष्टं समवर्तत। तदानीं वानराः सर्वे विस्मिताः सन्तः श्रीरामं राक्षसाः च रावणं पश्यन्ति स्म। श्रीरामः तदा मया जेतव्यम् इति दृढनिश्चयं कृत्वा युद्धे स्ववीर्यसर्वस्वं प्रदर्शयितुम् आरभत। रावणोऽपि तदा मृत्युं स्वीकरिष्यामि किन्तु युद्धात् न विरमामि इति धिया दृढनिश्चयं कृत्वा युद्धे प्रवृत्तः अभवत्। ततः क्रुद्धः रावणः शरान् सन्धाय राघवस्य रथे स्थितं ध्वजम् उद्दिश्य अमुञ्चत्, किन्तु ते शराः देवराजरथध्वजम् अस्पृष्ट्वा हि धरणीतले अपतन्। तद् दृष्ट्वा संक्रुद्धः वीर्यवान् रामोऽपि कृतस्य प्रतीकारं कर्तुं मनः कृत्वा चापम् आकृष्य रावणध्वजमुद्दिश्य निशितं महासर्पमिव असह्यं ज्वलन्तं शरम् अक्षिपत्। तेजस्विना रामेण क्षिप्तः सः शरः रावणरथध्वजं भित्त्वा धरणीतले अपतत्। तेन छिन्नः रावणरथस्य ध्वजोऽपि भूमौ अपतत्। स्वध्वजस्य उन्मूलनं दृष्ट्वा रावणः अत्यन्तं कुपितः सन् दीप्तैः शरैः रामस्य अश्वान् अविध्यत्। किन्तु ते दिव्याः अश्वाः रावणस्य बाणप्रहारं प्राप्य अपि पद्मनालैरिव आहताः स्वस्थहृदयाः अतिष्ठन्।
तेषाम् अश्वानाम् असम्भ्रमं दृष्ट्वा क्रुद्धः रावणः पुनः शरवर्षम् अमुञ्चत्। सः मायाविहितं गदा, मुषलः, परिघः, शूलं, गिरिशृङ्गं, वृक्षः इत्यादिकं शस्त्रवर्षम् अपातयत्। तस्मिन् समये सुसंक्रुद्धः रावणः रामरथं त्यक्त्वा शरवर्षैः आकाशं वानरबलं च आच्छन्नम् अकरोत्। रणे रावणं तत्परं दृष्ट्वा हसन् श्रीरामः सहस्रशः निशितान् शरान् गृहीत्वा अक्षिपत्। तस्मिन् रणे रामः रावणम् उद्दिश्य रावणः च रामम् उद्दिश्य यान् बाणान् अक्षिपत् तेषु कश्चिदपि बाणः निष्फलः नाभवत्। ते सर्वे शराः अन्यः अन्यम् अभिसंहत्य धरणीतले अपतन्। समरे तौ रामरावणौ एवमेव बाणान् क्षेप्तुम् आरभेताम् यस्मात् आकाशमण्डलं बाणैः आच्छन्नम् अभवत्। प्रतीकाराय तौ उभावपि प्रयुध्यमानौ महाबलौ एकः अन्यस्य अश्वान् अविध्यताम्। एवमेव मुहूर्तं यावत् तयोः रोमहर्षणं तुमुलं युद्धम् अभवत्। परन्तु ध्वजावपातेन राक्षसाधिपः रावणः राघवाय भृशम् अकुप्यत्।
-प्रदीपः pradipnath997@gmail.com