महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय
सनातनधर्मस्य मुख्यहोता पराशरपुत्रः, भगवत्स्वरूपः, महाभारतस्य, अष्टादशपुराणानां, ब्रह्मसूत्रस्य, एवं नानासद्ग्रन्थानां रचयिता महर्षिवेदव्यासः लोके प्रकीर्त्यते । महर्षिणा मूलवेदः चतुर्षु भागेष्वपि विभाजितः आसीत् । तस्मै विष्णुरूपाय व्यासाय नमो नमः ।
महर्षि-वशिष्ठस्य शतं पुत्राः, तेषु ज्येष्ठः शक्ति-नामधेयः । शक्तिः कस्मादपि कारणात् राजानं कल्माषपादम् अभिशप्तवान् यत् भवान् राक्षसः भवतु इति । स हि कल्माषपादः तेषां महाकालः सञ्जातः, शक्तिना सहः वशिष्ठमुनेः शतं पुत्रान् सः भक्षितवान् । पुत्रवियोगम् असहमानः शोकसंतप्तः वशिष्ठमुनिः सरस्वतीनदीं पतित्वा आत्महत्यार्थं सन्नद्धः जातः चेदपि सरस्वतीदेवी साक्षात् प्रकटीभूय तं रक्षितवती । वंशनाशदुःखात् स मर्तुम् इच्छति स्म, परन्तु शक्तिपत्नी अदृश्यस्ती गर्भवती अस्तीति ज्ञात्वा शोकम् अत्यजत् ।
यथासमयम् अदृश्यस्ती एकं पुत्रसन्तानं प्रसूतवती । तस्यनाम पराशरः इति जातम् । कालक्रमे अयं मन्त्रद्रष्टा जातः । म्रियमाणाय वशिष्ठाय सः पुनर्जीवनं दत्तवान् इत्यतः तस्य नाम 'पराशरः' इति । वशिष्ठमुनिः सयत्नं तस्य पालन-पोषणं कृतवान् ।
एकदा पराशरः मातुः पुरस्तात् हि पितामहं वशिष्ठं 'पितः !' इति सम्बोधितवान् । तदा तस्य जननी तं ज्ञापितवती यत् अयं भवतः पितामहः हि, न वा पिता इति । अनन्तरं सः मातृमुखात् ज्ञातवान् यत् तत्पितरं एकः राक्षसः भक्षितवान् इति । तज्ज्ञात्वा सः क्रोधेन उत्तुङ्गतां गतः । वशिष्ठः तं समाश्वास्य तस्मै धैर्यं प्रदत्तवान् । तथापि सः तस्य राक्षसस्य नाशार्थं राक्षसयज्ञं सम्पादितवान्, तस्य यज्ञस्य पुरोहितः पुलस्त्यमुनिः आसीत् ।
एकदा पराशरः यमुनानदीम् उपस्थाय नदीं तरीतुम् ऐच्छत्, विशेषकार्यार्थम् । तदा एका धीवरपुत्री मत्स्यगन्धा नौकया ऋषिम् अपरतीरं प्रापयितुम् उत्सुका जाता । ऋषिः नौकाम् आरूढवान् । गमनसमये ऋषिः धीवरपुत्रीरूपे मुग्धः जातः, गान्धर्वप्रथानुसारं तां परिणीतवान् अपि । तपोबलेन ऋषिः नदीमध्ये हि एकं द्वीपं सृष्ट्वा तत्रैव मत्स्यगन्धया सह रमणं कृतवान् । सा ऋषिवरदानेन मत्स्यगन्धातः पद्मगन्धा जाता, सत्यवती इति नाम्ना सा प्रसिद्धा अभवत् ।
गच्छता कालेन सा एकं पुत्ररत्नं प्रसूतवती । तस्य शिशोः शरीरं श्यामवर्णीयम् आसीत्, अतः 'कृष्णः' इति तस्य नाम जातम् । द्वीपे जन्म इत्यतः तस्य अपरनाम 'द्वैपायनः' इति नाम्ना ख्यातः अभवत् सः । तेन वेदस्य विभाजनं कृतम्, अतः अन्यत् नाम 'वेदव्यासः' इति । शास्त्रानुसारं सः भगवतः नारायणस्य अंशावतारः वर्तते ।
भारतीयम् ऐतिह्यम्, परम्परागता साहित्य-संस्कृतिः इत्यादिषु वेदव्यासस्य अतुलनीयम् अवदानं वर्तते । पूर्वं वेदः एकः हि आसीत्, कलिकालस्य उपक्रमम् अभिज्ञाय तेन वेदः चतुर्षु भागेषु विभाजितः । ते ऋक्, यजुः, सामः, अथर्वः चेति । इतिहासः एवं पुराणसमूहः पञ्चमवेदत्वेन स्वीक्रियते । महाभारत-नामकं महाकाव्यमपि तस्यैव कृतिर्वर्तते । एवमेव श्रीमद्भागवतं वेदव्यासस्य अमरकृतित्वेन लोके राजमानम् अस्ति । तस्य अपरनाम 'वादरायणः' इति । तेन वेदान्तग्रन्थः विरचितः । प्रस्थानत्रयम् इत्युक्ते उपनिषत्, भगवद्गीता, वेदान्तसूत्रं चेति, यस्य स्रष्टा भगवान् वेदव्यासः आख्यायते । व्यासोच्छिष्टं जगत्सर्वम् इति ।
-- नारदः ।