प्रधानमन्त्री-निर्धनानां सेवा वञ्चितानां च सम्मानम् अस्माकं सर्वाधिक-प्राथमिकता
प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् तस्मै देशे चतस्रः सर्वाधिक-वृहत्तमाः जातयः निर्धनाः, युवानः, महिलाः, कृषकाश्च सन्ति। निर्धनानां सेवा वञ्चितानां च सम्मानम् अस्माकं सर्वाधिक-प्राथमिकता वर्तते। प्रधानमन्त्रिणा इन्दौर- नगरस्य हुकुमचन्दमिल- समवायेन आयोजिते श्रमिक-हितः श्रमिकेभ्यः समर्पितः इत्याख्ये कार्यक्रमे श्रमिकाः आभासीयमाध्यमेन सम्बोधिताः। एतेषां कर्मचारिणां वेतनं त्रिंशत् वर्षेभ्यः लम्बितम् आसीत्। प्रधानमन्त्रिणः पक्षतः मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः प्रतीकात्मकरूपेण श्रमिकेभ्यः षड्चत्वारिंशत्- लक्षाधिक- सप्तदशोत्तरद्विशतं कोटि- रूप्याकाणां धनपत्राणि अयच्छत्। अनने पदक्षेपेन पञ्चसहस्राधिक- श्रमिकाः तेषां परिजनाश्च लाभं प्राप्तवन्तः। मोदी अष्टोत्तर- त्रिंशत्- कोटि- रूप्यकैः निर्मितस्य सौरोर्जा संयन्त्रस्य अपि आभासीयम् उद्घाटनम् अकरोत्। अनने प्रतिमाहं विद्युत् व्यये चतुः कोटि- रूप्यकाणां लाभो भविष्यति। निज-सम्बोधने प्रधानमनत्री अवोचत् यत् अस्माकं प्रशासनस्य सङ्कल्प-पत्रम् तस्य पूर्तये च राज्यप्रशासनं जवेन कार्यं विदधाति। प्रधानमन्त्रिणा विकसित- भारत- सङ्कल्प- यात्रायां सहभागितायै सर्वकारस्य योजनानां लाभाय च जनाः अभ्यर्थिताः। अमुनोक्तं यत् उज्जयिन्याः आरब्धा इयं यात्रा मध्य-प्रदेशस्य षड् शतं स्थलेषु सम्प्राप्ता:, लक्षशो जनाश्च अनया लाभान्विताः अभवन्।
प्रधानमन्त्री-निर्धनानां सेवा वञ्चितानां च सम्मानम् अस्माकं सर्वाधिक-प्राथमिकता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment