विवेकबिन्द्रा विवादः चर्चायामस्ति
वार्तापत्रिकासु इदानीं प्रसिद्धः प्रेरकवक्ता विवेकविन्द्रा चर्यायामस्ति। तस्योपरि आरोपः वर्तते यत् विवेकबिन्द्रा स्वपत्न्याः उपरि आक्रमणं कृतवान्। तत्सम्बन्धं प्रकरणं पुलिसस्थानके पञ्जीकृतमस्ति। प्रेरकवक्ता स्वपत्नीं कक्षे निरुद्ध्य ताडितवान् इति आरोपः अस्ति। ताडनेन भार्यायाः कर्णपटलः स्फुटितः। तस्य शरीरे व्रणस्य चिह्नानि सन्ति। उत्तरप्रदेशस्य गौतमबुद्धनगरमण्डलस्य नोएडा-नगरस्य सेक्टर-१२६-पुलिसस्थाने स्वपत्न्याः उपरि आक्रामणं कृत्वा प्रसिद्धस्य प्रेरकवक्ता विवेकबिन्द्रस्य विरुद्धं प्रकरणं पंजीकृतम् अस्ति। भार्यायाः भ्राता एतत् प्रकरणं पञ्जीकृतवान् । पुलिसस्थानके पञ्जीकृतस्य प्रकरणानुसारं ताडनानन्तरं दिल्लीनगरस्य निजचिकित्सालये कतिपयान् दिनानि यावत् महिलायाः चिकित्सा कृता। तस्य कर्णपटलः स्फुटितः इति आरोपः अस्ति । अभियुक्तः भार्यायाः केशान् आकर्षितवान्। स्त्रियाः शरीरे व्रणाः दृश्यन्ते । नोएडापुलिसप्रशासनम् सत्यतायाः विषये अन्वेषणं आरब्धवान् अस्ति। सर्वान् पक्षान् मनसि कृत्वा पुलिसप्रकरणस्य अन्वेषणं कुर्वती अस्ति।
विवेकबिन्द्रा विवादः चर्चायामस्ति, पत्नीं ताडनस्य अस्ति आरोपः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment