वित्तमन्त्री निर्मला सीतारमणः – एनडीआरएफ इत्यनेन तमिलनाडु राज्यस्य जलाप्लावेन प्रभावितक्षेत्रेभ्यः द्विचत्वारिंश्त सहस्राधिकाः जनाः संरक्षिताः
वित्तमन्त्री निर्मला सीतारमणः प्रोक्तवती यत् एनडीआरएफ इत्यनेन तमिलनाडु राज्यस्य जलाप्लावेन प्रभावितक्षेत्रेभ्यः द्विचत्वारिंश्त सहस्राधिकाः जनाः संरक्षिताः। नव दिल्ल्यां वार्ताहरसम्मेलनं सम्बोधयन्ती सा अवदत् वत् केन्द्रेण राज्यस्य आपत्प्रतिक्रियाकोषात् राज्याय नवशतं कोटिरूप्यकाणि पूर्वमेव प्रदत्तम्। सुश्री सीतारमणः उक्तवती यत् श्रीवैकुण्ठम रेलस्थानकात् अष्ट शतं यात्रिणः सुरक्षितरूपेण उद्घारिताः, तेषां कृतेरेलविभागेन विशेषरेलयानस्य, अपि च बसयानस्य व्यवस्था कृता अस्ति। भारतीयवायुसेना, नौसेना, तट रक्षकेन च नव उदग्रयानानि नियोजितानि सन्ति। ।सा अपि सूचितवती यत् अन्तरमन्त्रालयस्य केन्द्रीयमूल्यांकनदलेन जलाप्लावस्य द्वे दिनाभ्यन्तरे दिसम्बर मासस्य ऊनविंशति दिनाङ्के जलाप्लवक्षेत्राणां निरीक्षणं कृतम्।
वित्तमन्त्री निर्मला सीतारमणः – एनडीआरएफ द्वारा तमिलनाडुराज्ये सहस्राधिकाः जनाः संरक्षिताः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment