महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च
दिलीप:, संस्कृतशिक्षकः हिमाचलशिक्षाविभागः
महाभारतकथा :- विराटप्रदेशे शरणं प्राप्तानां पाण्डवानां द्वादशवर्षाणां वनवासे सम्पन्ने गते सति एकवर्षं यावत् अज्ञातवासोऽपि व्यतीतव्यम् आसीत् । अतो ते तदर्थं विराटनगरं प्रति प्रस्थिताः। विराटनगरं प्राप्य ते सर्वे एकस्य वृक्षस्य अधः उपविष्टाः। युधिष्ठिरः अवदत् यत् अहं ‘कङ्क्’ इति नाम स्वीकृत्य ब्राह्मणवेषेण राजा विराटस्य प्रासादे शरणं करिष्यामि इति। सः भीमं प्रति अवदत् यत् त्वं महाराजविराटस्य प्रासादे ‘वल्लभ’ इति नाम्ना पाचककार्यं याचतु । सः अर्जुनं अवदत् यत् त्वं ‘बृहन्नला’ इति नाम गृहीत्वा स्त्रीलंकारैः अलङ्कृताः भूत्वा विराटनरेशस्य राजकुमार्याः कृते सङ्गीतं नृत्यं च शिक्षणाय अनुरोधं कुर्या:। तथा नकुलः ‘ग्रन्थिक’ इति नाम्ना अश्वपालनकार्यं याचयेत् । सहदेवश्च ‘तंत्रिपाल’ इति नाम्ना गोपालकस्य कार्यं याचयेत्।
सर्वे पाण्डवाः शमीवृक्षे स्वशस्त्राणि निगूह्य निजवेषाणि परिवर्त्य अधिपते: विराटस्य प्रासादे प्रविशन्तः । तेषां सर्वेषां निवेदनं विराटनरेशः स्वीकृतवान् । विराटस्य पत्नी सुदेषणा द्रौपद्या: सौन्दर्यं दृष्ट्वा मुग्धा भूत्वा केश-विन्यासादि कर्तुं तां नियुक्तवती । द्रौपदी च निज “सैरन्ध्री” इति नाम उक्तवती ।
विराट नगरे सर्वे पाण्डवा: द्रौपदी च सुखेन स्वे स्वे कार्ये व्यग्रा: आसन् तदैव एकस्मिन् दिने विराट्-पत्न्याः सुदेष्णाया: भ्राता कीचकः सैरन्ध्रया: रूप-सौन्दर्यं दृष्ट्वा मुग्ध: जातः, तां च प्राप्तुं व्याकुलश्च अभवत् । सः स्वभगिनीं सैरन्ध्रीविषये पृष्टवान्। सुदेष्णापि तस्य दुर्भावनां ज्ञात्वा तं अवदत् यत् – हे भ्रात! सा तु साधारणा प्रासाददासी एवास्ति परन्तु कामातुर: कीचक: येन केन प्रकारेण द्रौपदीं समक्षे प्राप्य द्रौपदीं उक्तवान् – हे सुन्दरे! का असि त्वं ? अहं तु तव क्रीतदासोऽस्मि। यदा त्वं मम नयनयोः मध्ये पतितासि तावतेव अहं तवोपरी मुग्धोस्मि। त्वं मां दासं कर्तुं शक्नोषि । द्रौपदी भयात् दूरे गच्छन्ती उक्तवती – अहं तु दासी अस्मि नास्मयहं तव योग्या। तत्रैव विवाहितापि अस्मि, मया सह मा एवं व्यवहार: कुरु। कीचकः तस्मिन् समये तु तत्त: पलायितः परन्तु स्वभगिन्या सह स: सैरन्ध्रीविषये मुहुर्महुः वार्ताः करोति स्म। एकदा दु:खी भूत्वा अन्यं किमपि विकल्पं न दृष्ट्वा सुदेष्णा उक्तवती यत् उत्सवदिने अहं तव समीपे सैरन्ध्रीं प्रेषयिष्यामि इति। उत्सवदिने राज्ञी कानिचन वस्तूनि आनयितुं व्याजेन सैरन्ध्रीं कीचकस्य प्रकोष्ठे प्रेषितवती । तत्र तु कीचक: पूर्वमेव स्थितः आसीत् कीचकस्य दुष्टाभिप्रायं ज्ञात्वा क्रोधिता , दु:खिता रुदन्ती सैरन्ध्री तत्त: काठिन्येन पलायिता ।
नित्येव एतादृशात् व्यवहारात् दुखितया तया एकदा एकान्ते भीमं प्रति कीचकस्य दुर्व्यावहारस्य विषये सर्वं कथितम् । क्रुद्धः भीमः अवदत् यत् इदानीं यदैव सः कीचक: किमपि वदिष्यति , दुर्व्यवहरिष्यति वा तदा तं कीचकं त्वं इदं कथये यत् – “अर्धरात्रीं नाट्यगृहमागत्य मया सह मेलनं कुरु” ।
एवमेव कृते सति एकदा यदा कीचक: सैरन्ध्रीं पुरत: आगच्छति तदा सा कीचकं योजनानुसारं अर्धरात्रौ नाट्यगृहे मिलनाय आह्वयति । अति प्रसन्न: सः अर्धरात्रौ नाट्यगृहं प्राप्तवान्, यत्र भीमः स्त्रीवेषं सन्धार्य पूर्वमेव प्रतीक्षमाणः आसीत् । कीचक-भीमौ उभौ मध्ये भयङ्करं मल्ल्युद्धं अभवत् । अन्ते भीमः कीचकं उत्थाप्य भूमौ पूर्णशक्त्या पोथयित्वा निपतति। कीचकस्य प्राणा: निर्गता: अत: पापक: सः पञ्चत्वं गत: । परदिने एव विराटनगरे एतादृशा वार्ता प्रसृता यत् सैरन्ध्रया: गन्धर्वपतिना कीचकस्य वधः कृत:।