चिन्तपूर्णी मन्दिरम् – रज्जुमार्गनिर्माणार्थं कार्यपत्रं प्राप्तम्, एकहोरायां ७०० यात्रिकाः यात्रां कर्तुं शक्नुवन्ति
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
राज्यस्य ऊनामण्डले चिन्तपूर्णीमन्दिरपर्यन्तं यात्रिकरज्जुमार्गस्य निर्माणार्थं कार्यपत्रं प्रदत्तम् अस्ति। माताचिन्तपूर्णीमन्दिरपर्यन्तं यात्रिकरज्जुमार्गस्य विकासाय रोपवे एण्ड रैपिड ट्रांसपोर्ट सिस्टम डेवलपमेंट कॉर्पोरेशन लिमिटेड, हिमाचलप्रदेशस्य निदेशक: अजय शर्मा, शुक्रवासरे मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: उपस्थितौ मेसर्स स्काई-हिमालय-रोपवेज प्रा.लि इत्यस्य प्रबन्धनिदेशकाय अमिताभशर्मणे कार्यपत्रं प्रदत्तम्।
अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् १.१ किलोमीटर् दीर्घः अयं रज्जुमार्गः ७६.५० कोटिरूप्यकाणां व्ययेन निर्मितः भविष्यति। एषा अत्याधुनिकपरिवहनव्यवस्था प्रतिहोरां ७०० यात्रिकाणां उभयदिशि गमनम् सुनिश्चितं करिष्यति। तदतिरिक्तं अत्र आगच्छन्तः पर्यटकाः, भक्ताः च नूतनयात्रानुभवः अपि प्राप्स्यन्ति। सः अवदत् यत् एषा परियोजना राज्यस्य युवानां प्रत्यक्षं परोक्षं च रोजगारं प्रदास्यति, धार्मिकपर्यटनम् अपि नूतनं गतिं प्राप्स्यति। सुखविन्दरसिंहसुक्खुः अवदत् यत् माताचिन्तपूर्णीमन्दिरस्य ऐतिहासिकं आध्यात्मिकं च महत्त्वम् अस्ति। हिमाचलप्रदेशे स्थितेषु शक्तिपीठेषु अस्य प्रमुखं स्थानम् अस्ति ।
चिन्तपूर्णी मन्दिरम् -रज्जुमार्गनिर्माणार्थं कार्यपत्रं प्राप्तम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment