श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः
दीनदयालशुक्लः (उत्तरप्रदेशः)
लखनऊ। श्रीमद्भागवतगीताजयन्ती इत्यस्य अवसरे उत्तरप्रदेशसंस्कृतसंस्थानेन संस्कृतभाषाप्रशिक्षणवर्गाणाम् अन्तर्गतं मासिकं बौद्धिकसत्रस्य आयोजनं कृतम्। अस्य बौद्धिकसत्रस्य उद्घाटनमुख्यवक्तारूपेण हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य प्रवक्ता डॉ. नरेन्द्रकुमारपाण्डेयः उपस्थिताः आसन्। श्रीमद्भगवद्गीतायाः विषये उपस्थितान् छात्रान् सम्बोधितवान्। कार्यक्रमस्य आरम्भः संजीवनी गोरस्य शङ्खध्वनिना अभवत् । डॉ भारती आवाहनम् अकरोत्। पंकजकुमारः गीतामातुः परिवेदना प्रस्तुतं कृतवान्। भाषाप्रशिक्षकरूपेण उपस्थितेन नूतनविष्णुरेग्मीमहोदयेन अतिथिभ्यः कार्यक्रमस्य रूपरेखायाः परिचयः कृतः। उत्तरप्रदेशसंस्कृतसंस्थानस्य विविधाः योजनाः प्रवर्तयत्। संस्कृतसंस्थाः केवलं उत्तरप्रदेशे संस्कृतकक्षां चालयति वा सम्पूर्णे भारते संस्कृतप्रेमिणां कृते वा इति अपि कथितम् । एतदतिरिक्तं ज्योतिष-कक्षा, कम्प्यूटर-कक्ष-वास्तु-कक्षा इत्यादीनि संस्थाद्वारा संचालिताः भवन्ति । विनोदकुमार वत्सः कार्यक्रमे गीतासारस्य केचन श्लोकाः पाठितवन्तः। अस्मिन् अवसरे सैशा, नारायणी च नामनी लघुबालिके श्रीमद्भागवतस्य १५ अध्यायस्य पाठं कृतवत्यौ। येन सर्वे श्रोतारः मुग्धाः अभवन्। मुख्यवक्तृरूपेण आगतः डॉ. पाण्डेयः सर्वेषां प्रशिक्षुणां कृते श्रीमद्भागवतगीतां स्वजीवने स्वीकर्तुं प्रेरितवान्। अयं कार्यक्रमः संस्थायाः प्रशिक्षकः दीनदयालशुक्लः सफलतया सम्पादितः । कार्यक्रमे उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकः श्री विनयश्रीवास्तवः, सर्वेक्षिका चन्द्रकला शाक्य, प्रशासनिकपदाधिकारी जगदानन्दझा, प्रशिक्षणप्रमुखः श्रीसुधीष्ठमिश्रः व समन्वयकः धीरजमैठाणी, राधाशर्मा, दिव्यरञ्जनादयः अपि उपस्थिताः आसन्। कार्यक्रमस्य समापनं प्रशिक्षकाजयकुमारद्वारा शांति मंत्रेण अभवत्। एताः कक्षाः संस्कृतप्रेमिणां कृते प्रतिमासं निःशुल्कं चाल्यन्ते । प्रमाणीकरणस्य परीक्षायाः च योजना अस्ति । कोऽपि जिज्ञासुः तस्मिन् प्रवेशं प्राप्तुं शक्नोति । अग्रिममासस्य जनवरीमासे पञ्जीकरणं अधुना एव आरब्धम् अस्ति।