भानुभक्ताचार्यः, श्रीरामायणञ्च
प्रत्येकं जनजातिषु एकः एकः महाजनः भवति एव । तासु जनजातिषु गोर्खाजनजातिः अन्यतमा । अस्यां जनजात्यां भानुभक्ताचार्यः सुप्रसिद्धः कश्चन संस्कृतपण्डितः । तेन महाभागेन वाल्मीकीयं रामायणमहाकाव्यं नेपालीभाषायाम् अनूदितमस्ति, यस्य नाम भानुभक्तीयं रामायणमिति आख्यायते ।
नेपालीभाषायाः आविर्भावः प्रचलनञ्च ततो हि समभवत् । अतः सः आदिकविः, एवञ्च नेपालीभाषायाः जनकः कथ्यते । ततः पूर्वं जनसमाजे प्रायः संस्कृतादिभाषाः हि प्रचलन्ति स्म । सामान्यजनाः यदा भानुभक्तीयं रामायणं गृहे गृहे पठितुम् आरब्धवन्तः तदा हि इयं भाषा सम्यक्तया प्रसृता अभवत् । महोदयेन प्रश्नोत्तरी, बधूशिक्षा, भक्तमाला इत्यादयः अन्येऽपि सारगर्भितग्रन्थाः नेपालीभाषया विरचिताः उपलभ्यन्ते ।
१३-जुलै, १८६८ तमे ख्रीष्टाब्दे लब्धजन्मः सः धनञ्जय-धर्मावत्योः सुपुत्रः, भानुवत् हि प्रकाशयुक्तः आसीत् । तेन कस्माच्चन घासविक्रेतुः प्रेरणा प्राप्ता आसीत् । घासकर्तकः पशुघासं विक्रीय यत् अल्पमूल्यकं धनं प्रतिदिनम् उपार्जयति स्म तस्य सञ्चयनं कृत्वा अन्ते जलार्थं ग्रामीणानां हिताय च एकस्य कूपस्य निखननकार्यं सम्पादितवान् । निर्धनस्य घासकर्तकस्य उदारकार्यम् अवलोक्य भानुभक्तः गभीरतया विचारितवान् यत् यद्यपि एषः एतावान् निर्धनः जनः, तथापि तस्मिन् एतादृशः महान् अनुभवः, परन्तु अहं पूर्वतः एव धनिके परिवारेऽस्मि, जीवनेऽहं किमपि कीर्तियुतं, महत्कार्यं कर्तुं न शक्नुयां किमिति । एवं प्रकारेण घासविक्रेतातः सः कार्यप्रेरणां प्राप्तवान् आसीत् । ततः हि सः कालान्तरे स्वकीयया कीर्त्या लोके अमरताम् अगच्छत् । धन्याः एतादृशाः महापुरुषाः !
प्रतिवर्षं १३-जुलै दिनाङ्के तस्य प्रसिद्धकवेः महाभागस्य जन्मदिवसः समस्तगोर्खालीजनैः, अन्यैरपि अतीव श्रद्धापूर्वकं पालयन्तीति, शुभम् ।
— नारदः