अहिंसाभावः मनुष्यम् उद्धरति
नारदपुराणे कयोश्चन दम्पत्योः एकः प्रसङ्गः आयाति । पतिः प्रतिदिनम् आखेटे रतः । सः वने विचरतः बहून् पशून् हतवान् । पत्युः अनेन पशुहिंसाजन्येन कार्येण पत्नी नितरां खिन्ना अभवत् । सा धर्मपरायणा, सुशीला च नारी आसीत् । तस्यै पतिकार्यं सर्वथा नारोचत । तस्मात् सा अहिंसावृत्तिं धारणाय नानाज्ञानसम्बद्धेन वचनेन तमुद्दिश्य प्रबोधयितुम् आरब्धवती ।
स्वामिन् ! एतां निर्बोधपशूनां हिंसां परित्यज्य भगवतः जनार्दनस्य आराधना क्रियताम् । पशुहिंसाकार्यं न कदापि न्यायोचितं कार्यं भवितुमर्हेत्, अपितु अनेन अपराधेन परिणामे नरकयातना हि भोक्तव्या भवेत् भवता । अतः इतः परं केवलं भगवद्भजनं क्रियताम् । पुराणेषु कथ्यमानमस्ति यत् ‘अहिंसा परमो धर्मः’ इति । यः हिंसायां प्रवृत्तः भवति, तस्य समस्त-धर्मः निरर्थकः भवति ।
स्वामिन् ! विद्वद्भिः जीवहिंसा षड्विधा उक्ता । प्रथमः हिंसकः सः, यः हिंसार्थम् अनुमोदनं करोति । एवं द्वितीयः, यः प्राणिनं हन्ति । तृतीयः, यः विश्वासम् उत्पाद्य प्राणिनं मृत्युजाले पातयति । चतुर्थः, यः मृतप्राणिनः मांसं भुङ्क्ते । पञ्चमः, यः मांसं पक्त्वा प्रस्तोति । तथैव षष्ठः हिंसकः सः, यः तन्मांसं खादनाय परिवेषयति चेति । एते सर्वेऽपि हिंसकाः स्युः । विद्वान् पुरुषः सर्वदा हि हिंसायुक्तं धर्मम् अधर्मं हि कथयति । मनुष्यस्य दयाभावः हि श्रेष्ठः । अत एवाहं भवतः हितार्थं हि वारं वारं पशुहिंसाकार्यं त्यक्तुं भवन्तं बोधयन्त्यस्मि । अतः तत्कार्यं सर्वथा परित्यज्यताम्, एवञ्च सप्रीति पशवः कृपया रक्ष्यन्ताम् इति ।
वस्तुतः नारी लक्ष्मीस्वरूपिणी भवति । तस्याः प्रबोधनेन पतिः अचिरेण सर्वविधहिंसातः निवृत्तः अभवत्, भगवद्भजने च प्रवृतः जातः इति, शुभम् ।
— असमप्रदेशीयः विज्ञानशिक्षकः नारदोपाध्यायः ।