श्रीरामकथा, लङ्काकाण्डम्!
(पञ्चाशत्तमः सर्गः)
मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः।
(द्वितीयः खण्डः)
हे शूर! तत्र विशल्यकरणी, सावर्ण्यकरणी, सञ्जीवकरणी तथा च सन्धानी इति नाम्ना चत्वारि औषधानि सन्ति। लक्ष्मणस्य सञ्जीवनार्थं त्वं शीघ्रं हि तानि औषधानि आनय। इत्येवमुक्तः हनुमान् औषधिपर्वतं गत्वा चिन्तायाम् अपतत् यतः सः ताम् औषधिं न पर्यचिनोत्। तदानीं तस्य मारुतात्मजस्य बुद्धिः समुत्पन्ना अभवत्। सः निश्चयम् अकरोत् , गिरेः इदमेव शिखरं गृहीत्वा गमिष्यामि। सुषेणः याम् औषधिम् अवदत् सा औषधिः अस्मिन्नेव शिखरे अस्ति इति भाति। यदि अहं विशल्यकरणीम् अगृह्य गच्छामि तर्हि कालात्ययेन दोषः स्यात्, महद् वैक्लव्यं च भवेत्। इत्येवं विचिन्त्य महाबलः हनुमान् क्षिप्रं गत्वा पर्वतश्रेष्ठम् आसाद्य त्रिवारम् अकम्पयत्। हरिशार्दूलः हनुमान् गिरेः तत् पुष्पितवृक्षशोभितं शिखरं हस्ताभ्यां गृहीत्वा समतोलयत्।
ततः महावेगः हनुमान् तत् शिखरम् आदाय वेगेन लङ्काम् आगत्य किञ्चिद् विश्रम्य सुषेणम् अब्रवीत् हे वानरश्रेष्ठ!
भवान् याः औषधीः अवदत् ताः अहं नावगच्छामि। अतः गिरेः तदिदं कृत्स्नं शिखरं हि हृतं मया। एवं कथयमानं तं हनुमन्तं प्रशस्य वानरश्रेष्ठः सुषेणः तस्मात् सर्वाः औषधीः उत्पाट्य अगृह्णात्। देवानामपि असाध्यं कर्म मारुतात्मजः हनुमान् अकरोत् इति दृष्ट्वा वानरयूथपाः सर्वे विस्मिताः अभवन्। ततः वानरश्रेष्ठः सुषेणः तां सर्वाम् औषधिं क्षुत्त्वा लक्ष्मणस्य नासिकायाम् अददात्। ताम् औषधिं समाघ्राय सः लक्ष्मणः विशल्यः विरुजः च भूत्वा शीघ्रं महीतलात् उदतिष्ठत्। भूतलात् उत्थितं तं लक्ष्मणं दृष्ट्वा वानराः सर्वे साधु साध्विति उक्त्वा तं प्रत्यपूजयन्। स्वस्थं लक्ष्मणं दृष्ट्वा परवीरहा रामचन्द्रः एहि एहि इत्यब्रवीत् तं गाढमालिङ्ग्य वचनम् अब्रवीत् हे वीर! दिष्ट्या त्वां मरणात् पुनरागतं पश्यामि। त्वां विना मम जीवनेन, सीतया, जयेन वा किम्!
यतः त्वयि पञ्चत्वमागते कः हि मम जीवितेनार्थः। इत्येवं ब्रुवतः महात्मनः श्रीरामस्य वचनं श्रुत्वा खिन्नः लक्ष्मणः वाक्यम् अब्रवीत् हे सत्यपराक्रम! पुरा तां प्रतिज्ञां प्रतिज्ञाय अधुना भवान् दुर्बलवद् एवं वक्तुं नार्हति। सत्यवादिनः कदापि वितथं प्रतिज्ञां न कुर्वन्ति, कारणं प्रतिज्ञापरिपालनं हि महत्त्वस्य लक्षणं भवति। हे अनघ! मत्कृते भवान् नैराश्यं मा गमत्। रावणं हत्वा अद्यैव प्रतिज्ञाम् अनुपालयतु। नर्दतः तीक्ष्णदंष्ट्रस्य सिंहस्य इव महागजः भवतः बाणमुखं प्राप्य भवतः शत्रुः जीवितः न यास्यति। यावद् दिवाकरः अस्तं न याति, अहं तु तस्य दुरात्मनः शीघ्रं वधम् इच्छामि। यदि सङ्ख्ये रावणस्य वधम् इच्छति, यदि भवतः कृतां प्रतिज्ञाम् इच्छति, यदि राजसुताभिलाषम् इच्छति तर्हि मम वचनानुसारं कार्ये प्रवृत्तः भवतु।
प्रदीपः
!