भजनलालशर्मणा राजस्थानस्य मुख्यमन्त्रीपदं स्वीकृतम्
हिमसंस्कृतवार्ताः- नरेश मलोटिया
भारतीयजनतापक्षस्य वरिष्ठनेता भजनलालशर्मा जयपुरे राजस्थानस्य मुख्यमन्त्रीपदं स्वीकृतवान्। जयपुरस्य अल्बर्टहॉल इत्यस्य सम्मुखे आयोजिते समारोहे राज्यपालः कलराजमिश्रः मुख्यमन्त्रिणं पदस्य शपथं गोपनीयतां च दत्तवान्। भाजपानेता दिया कुमारी, प्रेमचन्द बैरवा च उपमुख्यमन्त्रीरूपेण शपथं गृहीतवन्तौ। कार्यक्रमे प्रधानमंत्री नरेन्द्र मोदी, गृहमंत्री अमित शाह:, भारतीय जनता दलस्य राष्ट्रीय: अध्यक्ष: जगतप्रकाश नड्डा च भागं गृहीतवन्तः। कार्यक्रमे अनेके केन्द्रीयमन्त्रिणः मुख्यमन्त्रिणः च भाजपाशासितराज्यानां उपमुख्यमन्त्रिणः अपि उपस्थिताः आसन्।