पर्यावरणसंरक्षणे विद्यार्थिनां मुख्यभूमिका- आचार्या अनुपमा सिंह:
हिमसंस्कृतवार्ता:- डॉ. अमित शर्मा
सरदार- पटेल- विश्वविद्यालय: मंडी इत्यत्र भौतिकविज्ञानविभाग:, संगणकविज्ञानविभागद्वारा च पर्यावरणसंरक्षणे कार्यक्रमस्य आयोजनं जातम्। यत्र आचार्या अनुपमासिंह: प्रतिकुलपति: सरदार- पटेल- विश्वविद्यालय: मंडी मुख्यातिथि: आसीत्। कार्यक्रमस्य अध्यक्षता आचार्य: राजेशकुमारशर्मा, अधिष्ठाता महाविद्यालय- विकास- परिषद्, विभागाध्यक्ष: भौतिकविज्ञानविभाग: कृतवान्। अवसरेऽस्मिन् भौतिकविज्ञानविभागद्वारा भास्कराचार्य क्लब इत्यस्य स्थापना कृता। यत्र दिवांशी अध्यक्षा, बिपाशा उपाध्यक्षा, शुभम: महासचिव:, अनिका कोषाध्यक्षा, डिंपल कुमार:, रिवेला च सचिवरूपेण चयनिता:। समूहोऽयं स्वकीयाया पत्रिकाया: गुरुत्वम् इति नामधेयाया: प्रकाशनं करिष्यति। ऋषिकुमार: अस्या: संपादक:, विजेता, अंजलि: राजेंद्र: आयुषश्च सह संपादका: भविष्यन्ति। अस्मिन् अवसरे संगणकविज्ञानविभागेन कृत्रिमबुद्धि- रोबोटिकसमूहस्य (ए. आई. रोबोटिक क्लब) स्थापना कृता। यत्र साहिल: अध्यक्ष:, अंकित: उपाध्यक्ष:, अश्विनी महासचिव:, प्रियांशी सहसचिव:, शिवम: कोषाध्यक्ष:, सिमरन: जनसंपर्काधिकारी भविष्यति।
उभयो: दलयो: मुख्यसंरक्षक: आचार्या अनुपमासिंह:, संरक्षक: प्रोफेसर राजेशकुमारशर्मा भविष्यति। भास्कराचार्यसमूहस्य समन्वयक: डॉ. राजेशकुमार भविष्यति। उपलक्ष्येऽस्मिन् कृत्रिमबुद्धि- रोबोटिक- समूहेन (ए. आई. रोबोटिकक्लब) जलवायुघटिकाया: (क्लाइमेट क्लॉक) स्थापनं विश्वविद्यालये कृतं यस्या: उद्घाटनं कार्यक्रमस्य मुख्यातिथि: आचार्या अनुपमासिंहद्वारा कृतम्। सा उक्तवती यत् पर्यावरणं प्रति अस्माभि: न केवलं चेतनाया: आवश्यकता वर्तते अपितु समाजस्य पूर्णसहभागिता अपि सुनिश्चिता करणीया। एतदर्थं जागरूकता- अभियानस्यापि आवश्यकता वर्तते। आचार्य: राजेशकुमारशर्मा अवदत् यत् एतौ समूहौ विश्वविद्यालयं, विभागं, समाजं च प्रति कार्याय कृतसंकल्पौ भविष्यत:। न केवलं विज्ञानविषये अपितु पर्यावरणक्षेत्रे अपि अग्रणी भूमिकां निभालयत:। अस्मिन्नुपलक्ष्ये कृत्रिमबुद्धि- रोबोटिकसमूहस्य अध्यक्ष: साहिल:, भास्कराचार्य: समूहस्य अध्यक्षा देवांशी चापि स्वविचारान् प्रस्तुतवतन्तौ। कार्यक्रमे अधिष्ठाता शोध: डॉ. लखबीर सिंह:, डॉ. जगदीपवर्मा, डॉ. चेतन चौहान:, डॉ. राकेशकुमारशर्मा, डॉ. राजेशकुमारसहितं भौतिकविज्ञान- संगणकविभागस्य च सर्वे आचार्या: छात्राश्च उपस्थिता: आसन्।