केन्द्रीय गृहमन्त्रालयेन संसद-भवन-सुरक्षा-सम्बन्धित घटनाया: परिप्रेक्ष्ये निरीक्षणादेशो प्रदत्तः।
केन्द्रीय गृहमन्त्रालयेन ह्यस्तनीयायाः संसदभवन-सुरक्षा-सम्बन्धित- घटनायाः परिप्रेक्ष्ये निरीक्षणादेशो प्रदत्तः। प्रकरणेऽस्मिन् लोकसभा- सचिवालयपक्षतः अभ्यर्थना आसीत् यत् अस्य प्रकरणस्य आत्यन्तिकं निरीक्षणं भवेदिति। मन्त्रालयस्य प्रवक्ता प्रोक्तं यत् निरीक्षणसमितेः घटनां केन्द्रीय-आरक्षित-आरक्षी- बलम् इत्युक्ते सी.आर.पी.एफ. इत्यस्य महानिदेशकस्य दयालसिंहस्य नेतृत्वे क्रियते। समितिः प्रत्यवेदने सुरक्षा- संशोधनानि अपि प्रख्यापयिष्यति।