ved भारतीयसंस्कृते: मूलस्रोतांसि वेदा: -आचार्य अनुपमा सिंह:
विश्वदर्शनदिवसोपलक्ष्ये इतिहासविभाग: सरदारपटेलविश्वविद्यालय: मंडीद्वारा आयोजिता संगोष्ठी।
हिमसंस्कृतवार्ता:- डॉ. राकेश शर्मा/ डॉ. अमित शर्मा
इतिहासविभाग: सरदारपटेलविश्वविद्यालय: मंडीद्वारा विश्वदर्शनदिवसोपलक्ष्ये भारतीय- दार्शनिक- अनुसंधानपरिषद् नवदेहली, शिक्षामंत्रालय: भारतसर्वकारद्वारा वित्तपोषिता “भारतीयसंस्कृतौ निहितमौलिकमूल्यानि, राष्ट्रीयपुनर्निर्माणे च तेषां प्रासंगिकता” इति विषये राष्ट्रीयसंगोष्ठे: आयोजिता। आचार्य अनुपमा सिंह: प्रतिकुलपति: सरदार- पटेल- विश्वविद्यालय: मंडी कार्यक्रमस्य अध्यक्षताम् अकरोत्। विशिष्टातिथिरूपेण आचार्य: राजेशकुमारशर्मा अधिष्ठाता महाविद्यालय- विकास- परिषद् उपस्थितः आसीत्। कार्यक्रमस्य शुभारंभावसरे विभागस्य विद्यार्थिभि: सर्वेषाम् अतिथीनां भारतीयपरंपरानुसारं तिलकचिह्नेन स्वागतं कृतम्। तदनु मातु: सरस्वत्या: सम्मुखं दीपप्रज्ज्वलेन कार्यक्रमस्य शुभारंभ: जातः। सरस्वतीवंदना, वंदे मातरम् इत्यनयो: अनन्तरं संगोष्ठीसंयोजक: प्रभारी इतिहासविभागश्च डॉ. राकेशकुमारशर्मा विदुषां परिचयम् अकारयत्, राष्ट्रीय संगोष्ठे: उद्देश्यान् च प्रस्तुतवान्। आचार्या अनुपमासिंह: स्वकीये अध्यक्षीयोद्बोधने अवदत् यत् भारतस्य आत्मा भारतीयसंस्कृतौ निहित:। भारतीय संस्कृते: मूलस्रोतांसि वेदा: एव। सम्प्रत्यपि भारतीयसंस्कृतौ वैदिककालीनजीवनशैल्या: जीवंतप्रतिमानानि समाजे दृश्यन्ते। सा उक्तवती यत् अद्य संपूर्णविश्वं स्वीकरोति भारतीयसंस्कृति: सभ्यता च विश्वस्य सर्वप्राचीनतमा वर्तते। उपलक्ष्येऽस्मिन् आचार्य ओमप्रकाशशर्मा सेवानिवृत्त: अध्यक्ष: डॉ. वाई. एस. परमारपीठम् हिमाचलप्रदेश- विश्वविद्यालय: शिमला भारतीयसंस्कृतौ नैतिकमूल्यानि, डॉ. चेतराम गर्ग: निदेशक: ठाकुररामसिंह- इतिहासशोधसंस्थानम् नेरी भारतीयसंस्कृतौ निहितानि नैतिकमूल्यानि, प्रो. भागचंदचौहान:, आचार्य: भौतिकविज्ञानविभाग: हिमाचलप्रदेश- केंद्रीयविश्वविद्यालय: धर्मशाला भारतीय संस्कृतौ शिक्षा, संस्कारा: च, डॉ. कर्मसिंह: पूर्वसचिव: हिमाचल- कला- संस्कृति- भाषा- अकादमी, शिमला भारतीय संस्कृतौ राष्ट्रीयचिंतनं, डॉ. कृष्णमोहनपांडेय: सह आचार्य: संस्कृतविभाग: जवाहरलालनेहरूविश्वविद्यालय: नवदेहली भारतीयसंस्कृतौ धर्मतत्त्वानि इति विषये मुख्यवक्तृरूपेण स्वविचारा: प्रस्तुता:। धन्यवादप्रस्ताव: आचार्य: राजेशकुमारशर्मा प्रस्तुतवान्। मंचसंचालनं स्नातकोत्तर- तृतीयसत्रस्य छात्रा गीता अकरोत्। अस्मिन् उपलक्ष्ये अधिष्ठाता छात्रकल्याणम् डॉ. पवन चांद:, सहायक- आचार्या मोनिका, संगोष्ठीआयोजनसचिव: राजेशशर्मा, विकेशकुमार: अतिथिप्राध्यापक: कृष्ण चंद:, नवप्रीत कौर, दुश्मा कुमारी, गीता कुमारी, कृष्ण चंद महादेविया, जगदीश कपूर:, रूपेश्वरी देवी, कृष्णा देवी, इतिहास सोसायटी इत्यस्य अध्यक्षा पुनीत भारती, उपाध्यक्ष: जतिनसहितम् इतिहासविभाग:, लोकप्रशासनविभागस्य शोधार्थिनः छात्रा: उपस्थिता: आसन्।