पर्वतस्य अद्वितीयपरम्परा बुढ़ीदीपावली
दीपावली उत्सवस्य एकमासपश्चात् आचर्यते अयम् उत्सव:।
हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: ।
यदा देशे सर्वत्र दीपावली-उत्सवः महता उत्साहेन आचरितः, अधुना हिमाचलप्रदेशस्य कुल्लू- सिरमौर- लाहौल स्पीति मण्डलेषु च अयं उत्सवः दीपावली-उत्सवस्य एकमासपश्चात् बुढ़ीदीपावली इति नाम्ना आचर्यते। अत्र वैदिककालस्य प्राचीनपरम्पराः अद्यापि अनुसृताः सन्ति। अस्मिन् उत्सवे अत्रत्य: जना: विभिन्नानि व्यञ्जनानि निर्मीयन्ते। तेषु मुख्यत: मुड़ा, शाकुली, तेलपाकी, गुलगुले इत्यादीनि व्यञ्जनानि भवन्ति।
उत्सवेऽस्मिन् जना: स्थानीय-वेशभूषा धारयित्वा वाद्ययन्त्रै: सह गीतगायनं नृत्यादिकं च कुर्वन्ति। अयं उत्सवः अद्वितीयरीत्या आचर्यते। बुढीदीपावली १२ तः १५ दिसम्बरपर्यन्तम् आचर्यते। जनाः त्रिदिनानि यावत् पारम्परिकवाद्ययन्त्राणां ताडनं नृत्यं कृत्वा च बुढ़ीदीपावलीम् आचरन्ति।