श्रीरामायणकथा लङ्काकाण्डम्।
(ऊनपञ्चाशत्तमः सर्गः)
(चतुर्थः खण्डः)
एवमेव बहुकालं यावत् रामरावणयोः युद्धम् अभवत् किन्तु तौ उभावपि अपराजितौ आस्ताम्। यमराजवत् तौ उभावपि वीरौ एवमेव बाणान् क्षिपतः स्म यस्मात् प्राणिनः त्रस्ताः अभवन्। तयोः उभयोः बाणैः मेघवद् आकाशमण्डलं व्याप्तम् अभवत्। पुरा इन्द्रवृत्रासुरयोरिव परस्परं वधाकाङ्क्षिणोः रामरावणयोः युद्धम् आरब्धम्। एवमेव तयोः मध्ये युद्धं प्रचलति स्म। तदानीं संसक्तहस्तः रावणः श्रीरामस्य ललाटे नाराचमालां प्रत्यमुञ्चत्। रघुनन्दनः रामः किन्तु तदा नीलोत्पलदलवद् रावणेन क्षिप्तान् तान् बाणान् क्लेशेन विना शिरसा अधारयत्। सः किञ्चिदपि व्यथां न अन्वभवत्। ततः क्रोधसमन्वितः रामः भूयः शरान् समादाय राक्षसेन्द्राय अक्षिपत्। ते शराः रावणस्य महामेघसङ्काशे अवध्ये कवचे पातिताः अभवन्। तेन रावणस्य मनागपि क्षतिः नाभवत्।
तद् दृष्ट्वा सर्वास्त्रकुशलः श्रीरामः परमास्त्रेण रावणस्य ललाटम् अभिनत्, किन्तु तदस्त्रं रावणेन निवारितं भूत्वा बाणरूपं त्यक्त्वा पञ्चमुखसर्पः भूत्वा भूमौ प्राविशत्। रघुनन्दनस्य अस्त्रं निवारयन् क्रोधेन रावणः आसुरं सुमहाघोरम् अन्यदस्त्रं क्षेप्तुम् आरभत। महातेजाः रावणः क्रोधेन श्वसन् श्रीरामस्य उपरि सिंहव्याघ्रमुखान् कङ्ककाकमुखान् गृध्रश्येनमुखान् शृगालवदनान् च बाणान् अक्षिपत्। रावणस्य तानि अस्त्राणि दृष्ट्वा महातेजाः श्रीरामोऽपि अग्निदीप्तमुखान्, सूर्यमुखान्, ग्रहनक्षत्रवक्त्रान् विद्युज्जिह्वोपमान् च बाणान् अक्षिपत्। तस्मात् रावणस्य घोराः सर्वे शराः राघवास्त्रसमाहताः अभवन्। अक्लिष्टकर्मणा रामेण युद्धे रावणस्य तदस्त्रं हतं दृष्ट्वा कामरूपिणः सर्वे कपयः अत्यन्तं हृष्टाः अभवन्। सुग्रीवप्रमुखाः मुदिताः सर्वे वीराः तदा राघवं सम्परिक्षिप्य उच्चैः सिंहनादम् अकुर्वन्।
तस्मिन् प्रतिहते अस्त्रे रावणः द्विगुणः क्रुद्धः अभवत्। तदानीं सः मयेन विहितं रौद्रमस्त्रम् उत्स्रष्टुं निश्चयम् अकरोत्। ततः तस्य कार्मुकात् युगक्षये वाता इव शूलं , मुद्गरः, गदा, मुषलः, कूटपाशः इत्यादीनि विविधानि आयुधानि निस्सरन्ति स्म। ततः उत्तमास्त्रविदां वरः श्रीमान् राघवः परमास्त्रेण तदस्त्रम् अहन्। महात्मना राघवेण तस्मिन् प्रतिहते अस्त्रे कुपितः रावणः पुनः सौरास्त्रस्य प्रयोगम् अकरोत्। रावणस्य तदस्त्रमपि रामः बाणौघैः अच्छिनत्। तदस्त्रं हतं दृष्ट्वा राक्षसाधिपः रावणः दशभिः बाणैः श्रीरामम् अविध्यत्।
रावणस्य महाकार्मुकनिःसृतैः दशभिः बाणैः विद्धः भूत्वा अपि महातेजाः श्रीरामः मनागपि विचलितः नाभवत्, प्रत्युत रघुनन्दनः रामः बहुभिः शरैः रावणम् अविध्यत्। तस्मिन्नवसरे महाक्रुद्धः रामानुजः लक्ष्मणः रावणस्य ध्वजं सप्तभिः बाणैः नैकधा अच्छिनत्। ततः लक्ष्मणः तस्य सारथेः ज्वलितकुण्डलं शिरः एकेन बाणेन अच्छिनत्, अपिच सः रावणस्य गजकरोपमं धनुः पञ्चभिः शरैः अकर्तयत्। तस्मिन् समये राक्षसपुङ्गवः विभीषणः आप्लुत्य गदया रावणस्य नीलमेघनिभांश्च पर्वतोपमान् अश्वान् अहन्। भ्रातरं प्रति क्रुद्धः रावणः तदा अश्वहीनरथात् अवप्लुत्य प्रदीप्तां महाशक्तिम् आदाय विभीषणं प्रति अक्षिपत्। तदानीं महाबलः लक्ष्मणः ताम् अप्राप्तामेव शक्तिं त्रिभिः शरैः आकाशे हि अच्छिनत्।
–प्रदीपः!