भारतीय-सनातनधर्मदृष्ट्या गौः जननी (गौमाता) वर्तते
— नारदोपाध्यायः ।
भारतीयसंस्कृत्याः, सभ्यतायाः च उत्थान-विकासादिषु नानाक्षेत्रेषु च गोमातृस्थानं सर्वश्रेष्ठं मन्यते, एतस्य प्रमाणं श्रुतिः, स्मृतिः, पुराणम्, इतिहासः, आधुनिक-साहित्यम् इत्यादिषु सर्वत्र उपलभ्यते । गोमातुः स्थानम् अतीव उन्नतं वर्तते इत्यतः गोसेवाकारणात् अवतारि-पुरुषस्य भगवतः श्रीकृष्णस्य नामापि 'गोपालः' इति सञ्जातमासीत् । श्रीकृष्णभगवान् गोरक्षार्थं हि गोवर्धनपर्वतम् उन्नीय कनिष्ठाङ्गुल्या तद्धृतवानासीत् । तेन हि भगवता उक्तमासीद्यत् -
‘गावो मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ।।’ इति ।
एवमेव वेदस्य प्रसिद्धमन्त्रो यत् –
‘माता रुद्राणां दुहिता वसूनाम् ।’ इति ।
क्वचित् उक्तमस्ति –
‘तीर्थस्नानं, ब्राह्मणभोजनं, महादानं, भगवत्सेवा, समस्त-व्रतोपवासः, समस्त-तपः, पृथ्वीपर्यटनं, सत्यभाषणम् इत्यादिभिः यत् पुण्यं लभ्यते, तत्सर्वमपि पुण्यं केवलं गोसेवया शीघ्रं प्राप्तुं शक्यते’ इति । एवम् अन्यत्र च –
‘यस्याः धेनोः पृष्ठे ब्रह्मा, कण्ठे विष्णुः, मुखे रुद्रः, मध्ये देवगणाः, रोमकूपेषु महर्षयः, पुच्छे नागाः, खुराग्रेषु अष्टपर्वताः, मूत्रे गङ्गादिनद्यः,
नेत्रयोः सूर्याचन्द्रमसोः, स्तनौ वेदाः च निवसन्ति, सा सर्वेषां जननी, वरदा चास्ति ।
परन्तु स्वतन्त्रभारते, अस्यां पुण्यभूमौ, सम्प्रतिः गोवधः एको महान् कलङ्को वर्तते । धर्मनिरपेक्षता हि अस्य किञ्चन मुख्यं कारणं स्यात् । सनातनधर्मावलम्बिनः इतोऽपि निद्रामग्नाः हि दरीदृश्यन्ते । महाजागरणं भवेत् अस्माकं गोरक्षणाय । अन्यथा शीघ्रं हि मातृस्वरूपमिदं गोकुलं पूर्णतो विलयतां गच्छेदितः इत्यत्र नास्ति संशीतिः कापि ।
ओं नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ।
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः।।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ।। इति शुभम् ।