भाजपेति दलेन मध्यप्रदेश-छत्तीसगढ-राजस्थानेषु मुख्यमन्त्रिपदाय नेतृणां चयनाय विधायक दलैः कृतोपवेशनानां निरीक्षणाय केन्द्रीयपर्यवेक्षकाणां नियुक्तिः कृता। रक्षामन्त्री राजनाथसिंहः, सांसदः सरोजः पाण्डे, दलस्य महासचिवः विनोदः तावडे च राजस्थाने पर्यवेक्षकाः भविष्यन्ति। हरियाणायाः मुख्यमन्त्री मनोहरलाल खट्टरः, भाजपा-ओबीसी-मोर्चा इत्येतस्य प्रमुखः के. लक्ष्मणः, राष्ट्रियसचिवः आशा लाकडा च मध्यप्रदेशे पर्यवेक्षकाः भविष्यन्ति। केन्द्रीयजनजातीय-प्रकरणानां मन्त्री अर्जुन-मुण्डा, केन्द्रीयायुषमन्त्री सर्वानन्दः सोनोवालः, दलस्य महासचिवः, दुष्यन्त-कुमार-गौतमः च छत्तीसगढे पर्यवेक्षकाः भविष्यन्ति।
मध्यप्रदेश-छत्तीसगढ-राजस्थानेषु मुख्यमन्त्रिपदाय केन्द्रीयपर्यवेक्षकाणां नियुक्तिः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment