हिमसंस्कृतवार्ताः, दिलीपः,संस्कृतशिक्षकः शिक्षाविभागः हिमाचलप्रदेशः
वनवासकाले एकदा द्रौपदी सहस्रदलं कमलं दृष्टवती । कमलमादाय सा भीमं प्रति कथयति यत् – हे भीम ! कृपया मह्यं एतादृशानि एव कमलानि आनयित्वा देहि । द्रौपद्या वचनानि श्रुत्वा भीमः अपि तादृशानि एव कमलानि संग्रहीतुं प्रस्थितवान्। कतिपय क्रोशा: गत्वा भीमः गन्धमदनपर्वतस्य शिखरस्य उपरि विशालमेकम् कदलीवनं पश्यति यस्मिन् सः प्रविष्टवान् ।
वायुपुत्र: हनुमान: अपि तस्मिन्नेव वने निवसति स्म । भीमस्य आगमनविषये ज्ञात्वा हनुमान: चिन्तयति यत् इत: अग्रे तु स्वर्गस्य मार्ग: अस्ति अतः भीमाय स्वर्गमार्गे गमनं अधिकं हानिकारकं भविष्यति । एवमेव सुविज्ञाय हनुमान: भीमस्य मार्गे गत्वा शयित:। यदा सहस्रदल कमलानि अन्वेष्यन् भीमसेन: तत्र प्राप्त: तदा सः पश्यति यत् मार्गे कोऽपि वृद्ध: वानर: पतित: शयित: चास्ति । भीम: वानराय कथयति – भो मूर्ख वानर ! मार्गात् दूरे अपसर । अहं अग्रे गन्तुमिच्छामि । स: वानर: रुग्ण: इव पतित: सन् मार्गात् दूरे न भवति सार्धमेव इदमपि कथयति यत्- हे मानव ! इतः अग्रे मा गच्छ । यतोहि ‘अद्य प्रभृति अयं पर्वतः मनुष्याणां कृते दुर्गमः एव अनुभूतोऽस्ति , अतः इतः प्रत्यागच्छ।’
श्रुत्वा च भीमः उवाच- ‘अहं मृत्युं प्रापयिष्यामि ,जीविष्यामि वा इति मा उपदिश । भवतः किं प्रयोजनम् ? त्वं केवलं इत: उत्थाय मार्गं ददासि न वा अन्यथा मरणाय सज्ज: भव ।’ हनुमानः अवदत् – ‘अहं व्याधिग्रस्तत्वात् चलने अस्मर्थोऽस्मि। अहं गन्तुं न शक्नोमि, त्वं मां लङ्घ्य गन्तुं शक्नोषि ।’ भीमः पुन: उवाच – ‘ इदं तु सर्वे जानन्ति यत् सर्वभूतानां शरीरे ईश्वर: अस्ति, अतः कस्यचितपि लङ्घनं कृत्वा अपमानं न कर्तव्यम्।’ तदा हनुमान: आह – ‘ यदि एतादृशा वार्ता अस्ति तर्हि त्वं मम पुच्छं गृहीत्वा मार्गात् च दूरे कृत्वा अपरदिशायां गच्छ।’
भीमः अपि तथैव कुर्वन् वानरपुच्छं उत्थापनार्थं प्रयतते परं सफल: न भवति । भीमस्य मुखं लज्जया प्रणत: जातः। सः क्षमायाचनां कृत्वा तस्य परिचयं पृच्छति। अथ अति अनुनय-विनयानन्तरं हनुमानः स्वविषये परिचयं दत्त्वा भीमं प्रति उपदिशति यत् सदा सत्ये दृढतया तिष्ठे, सर्वेषु प्राणिषु सर्वदा शिष्टः भवे: इति । केवलं सत्यता विनय: चैव शक्तिं पूजनीया कुरुत: । अतः स्वशक्त्या कदापि गर्वं मा कुर्या । तथा च निज शक्तिं सत्कर्मसु एव उपयुञ्जीत् । विनम्र: भूत्वा समाजे आदरणीयः भव। सार्धमेव इदं वरं अपि अददात् यत् अहं महाभारतयुद्धकाले विपदिकाले च अवश्यमेव भवतां साहाय्यं करिष्यामि ।