सेशेल्स् मुख्यद्वीपे माहे-इत्यस्मिन् औद्योगिकक्षेत्रे विशालविस्फोटस्य अनन्तरं आपत्कालस्य घोषणा कृता अस्ति । एतेन विस्फोटेन माहेद्वीपस्य पूर्वक्षेत्रं पूर्णतया नष्टम् अस्ति । वाणिज्यिकभवनानि, समीपस्थानि निवासस्थानानि च पतितानि सन्ति । सेशेल्स्-देशस्य राष्ट्रपतिः वेवेल् रामकलावनः सर्वान् जनान् स्वगृहेषु एव स्थातुं आदेशं दत्तवान् । अस्यां घटनायां बहवः जनाः घातिताः सन्ति। निर्माणखननकम्पनीयां विस्फोटः अभवत् । तत्र चतुर्षु पात्रेषु विस्फोटकं स्थापितं यस्य कारणेन विस्फोटः अभवत् । अस्मिन् विस्फोटे अन्तर्राष्ट्रीयविमानस्थानकं क्षतिग्रस्तं जातम् किन्तु पर्यटकानां कृते अद्यापि विमानस्य सुविधाः उपलभ्यन्ते। ११५ द्वीपैः युक्तः सेशेल्स्-देशः पर्यटकानां कृते आकर्षकः देशः अस्ति । आफ्रिकादेशे सेशेल्स्-देशः न्यूनतमजनसंख्यायुक्तः देशः अस्ति, यस्य कुलजनसंख्या केवलं एकलक्षं भवति ।
सेशेल्सस्य मुख्यद्वीपे माहे-इत्यस्मिन् औद्योगिकक्षेत्रे विशालविस्फोटानन्तरं आपत्कालस्य घोषणा कृता
![](https://himsanskritam.com/wp-content/uploads/2023/12/NPIC-2023127211323.jpg)
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment