युवाकार्याणां क्रीडामन्त्रिणा अनुरागसिंहठाकुरेन उक्तं यत् केन्द्रेण देशे सर्वत्र त्रिशतचत्वारिंशत् क्रीडामूलसंरचनापरियोजनानां कृते ३५ अरब ६६ कोटि ६८ लक्षरूप्यकाणि स्वीकृतानि। श्री ठाकुरः राज्यसभायां लिखिते उत्तरे अवदत् यत् नागरिकानां कृते क्रीडासुविधानां निर्माणं उन्नयनं च राज्यसर्वकाराणां दायित्वम् अस्ति, यतः क्रीडा राज्यविषयः अस्ति। अस्मिन् विषये महत्त्वपूर्णानि अन्तरालानि पूरयितुं केन्द्रसर्वकारस्य पूरकभूमिका वर्तते इति सः अवदत्।
केन्द्रेण देशे सर्वत्र 340 क्रीडामूलसंरचनापरियोजनानां कृते ३५ अरब ६६ कोटि ६८ लक्षरूप्यकाणि स्वीकृतानि – क्रीडामन्त्री अनुरागसिंहः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment