CM Sukhu: केवलं ३१ मार्च-दिनाङ्के एव नियमिता: भविष्यन्ति वर्षद्वयस्य कार्यकालं पूर्णकर्तार: कर्मचारिण:
हिमसंस्कृतवार्ता: – धर्मशाला।
हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् वर्षद्वयस्य अनुबन्धकार्यकालं पूर्णकर्तार: कर्मचारिण: ३१ मार्च दिनाङ्के एव नियमितरूपेण भविष्यन्ति। विधायक: डॉ. जनकराज:, लोकेन्द्रकुमार:, कुमारी अनुराधा राणा, सुरेन्द्र शौरी इत्येतेषां प्रश्नानाम् उत्तरं दत्त्वा मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना उक्तं यत् सम्प्रति षष्टिः प्रतिशतं मूलभूतवेतनं अनुबन्धकर्मचारिभ्यः वेतनरूपेण दीयते। सम्प्रति तेभ्यः वार्षिकवेतनवृद्धिं दातुं सर्वकारेण कोऽपि निर्णयः न कृतः। अनुबन्धकर्मचारिणां वेतन- आयोगस्य अनुशंसानाम् आधारेण वेतनं न दीयते। मुख्यमन्त्री उक्तवान् यत् राज्यस्य विभिन्नविभागेषु रिक्तकार्यपदानि प्रशासनिकावश्यकतानुसारं पूर्यन्ते। मन्त्रिमण्डलस्य उपसमित्या अद्यापि जीविकासृजनार्थं काऽपि अनुशंसा न दत्ता।