HP Vidhan Sabha Winter Session: युवभ्यः जीविकां याचमाना: विधानसभापरिसरे आन्दोलने उपविष्टा भाजपा-विधायका:
हिमसंस्कृतवार्ता: – धर्मशाला।
विधानसभासत्रस्य तृतीये दिने भाजपाविधायकाः सत्रस्य आरम्भात् पूर्वमपि हस्तेषु प्लेकार्डम् इति गृहीत्वा विधानसभायाः बहिः विरोधं कृतवन्तः। भाजपाविधायकाः हस्तेषु प्लेकार्डं इति गृहीत्वा विरोधं कृत्वा युनां कृते ५ लक्षं कार्याणि प्रदातुं, अतिथिशिक्षकनीतिं निवृत्तं कर्तुं, निष्कासितानां बाह्याधार-कर्मचारिणां पुनः नियुक्तिम्, करुणा- आधारेण कार्य-व्यवस्थां च इत्यादीनां याचनानाम् आग्रहं कृतवन्तः।
अस्मिन् अवसरे विपक्षनेता जयरामठाकुरः अवदत् यत् काङ्ग्रेससर्वकारेण सत्तां प्राप्तमात्रेण प्रथममन्त्रिमण्डले कार्याणि प्रदातुं घोषणा कृता। यत्र काङ्ग्रेससर्वकारेण ५ लक्षं कार्याणि प्रदातुं प्रतिज्ञा कृता आसीत् तत्र सत्तां प्राप्य बाह्याधारेण नियुक्ता: कर्मचारिणः बहिः क्षिप्ताः। राज्ये रिक्तानि स्थितानि प्रायः १.५ लक्षं पदानि निरस्तीकृतानि। एतत् कृत्वा हिमाचलस्य अनुद्योगियुवकैः सह सर्वकारेण क्रूरः विनोदः कृतः। एतदेव न, अधुना सर्वकारेण अतिथिशिक्षकाणां नियुक्तेः घोषणां कृत्वा युनां वञ्चनं कृतम् अस्ति।
जयरामठाकुरः उक्तवान् यत् भाजपा युनां स्वरः भूत्वा स्वस्य विरोधं प्रदर्शयन् अस्ति। सः अवदत् यत् हिमाचलप्रदेशस्य युनां कृते युद्धं सदनस्य अन्तः अपि च बहिः अपि भविष्यति। काङ्ग्रेससर्वकारस्य प्रतिज्ञा: एकैकशः उजागरिताः भवन्ति, भाजपा युनां स्वरः भूत्वा विधानसभायाः अन्तः बहिश्च विरोधं करिष्यति।