Himachal Vidhan Sabha Session : भू-जोत संशोधनविधेयकं, जीएसटी, आबकारीविभागस्य च अधिकारानां पुनर्सङ्घटनार्थं त्रयः विधेयकाः पारिताः
हिमसंस्कृतवार्ता:-
हिमाचलप्रदेश- भूमिधारक- अधिकतम- सीमासंशोधन- विधेयकं २०२४ अपि शुक्रवासरे सदने पारितम्। विपक्षः राधास्वामीसत्संगविषये विधेयकं चयनसमित्याः कृते प्रेषयितुम् आहूतवान् आसीत्। चर्चां कृत्वा तत् पारितम्। अस्मिन् काले किञ्चित् विवादः अपि अभवत्। अस्य अन्तर्गतं अधुना ३० एकड़भूमिः अथवा भूमौ निर्मिताः संरचनाः धार्मिकाणां दानार्थं च स्थानान्तरितुं शक्यन्ते। यदि नियमानाम् उल्लङ्घनं भवति तर्हि एतादृशी भूमिः अथवा तस्मिन् निर्मिताया: संरचनायाः अधिकारः सर्वकारः गृह्णीयात्। अस्य संशोधनविधेयकस्य उद्देश्येषु सर्वकारेण स्पष्टीकृतं यत् राधास्वामी सत्संगब्यासः एकः धार्मिकः आध्यात्मिकः च संस्था अस्ति यः सम्पूर्णे देशे स्वकार्यं चालयति। अस्मिन् राज्ये नैतिक- धार्मिक- आध्यात्मिक-शिक्षायाः अनेकानि केन्द्राणि स्थापितानि सन्ति। अस्याः संस्थायाः हमीरपुरमण्डलस्य भोटा इत्यत्र अपि चिकित्सालयं स्थापितम् अस्ति। जनानां कृते स्वास्थ्यसेवाः प्रददाति। अस्याः संस्थायाः भूमिसीमाधिनियमस्य अन्तर्गतम् अनुमानितसीमायाः अतिरिक्तभूमिः अस्ति, या अधिनियमस्य धारा ५ इत्यस्य खण्ड- प्रथमस्य प्रावधानानाम् अन्तर्गतं अपकर्षं प्राप्तवती।
जीएसटी, आबकारी विभागस्य च अधिकारानां पुनर्सङ्घटनार्थं त्रयः विधेयकाः पारिताः
जीएसटी- आबकारी- विभागस्य अधिकाराणां पुनर्सङ्घटनार्थं त्रय: संशोधिता: विधेयका: शुक्रवासरे हिमाचलप्रदेशविधानसभायां पारिता:। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः गुरुवासरे सदने हिमाचलप्रदेश- यात्रीवस्तुसंशोधनविधेयकं २०२४, करसंशोधनविधेयकं २०२४, मूल्यवर्धितकरसंशोधनविधेयकं २०२४ च प्रस्तुतवान्। शुक्रवासरे सदने त्रयः अपि विधेयकाः पारिताः। एतेषां विधेयकानाम् अन्तर्गतं जीएसटी, आबकारी विभागस्य च अधिकारिणाम् अधिकाराणाम् उल्लेखः कृतः। पूर्वं जीएसटी आबकारी च एकः एव विभागः आसीत्। किञ्चित्कालपूर्वं सर्वकारेण तानि पक्षद्वये विभक्तम्। जीएसटी-प्रकोष्ठ: अञ्चलम् वृत्तं च (जोन एण्ड सर्कल) इत्यस्य अन्तर्गतं कार्यं करिष्यति। आबकारीविभागः जनपद:, अञ्चलं, वृत्तस्य अन्तर्गतं कार्यं करिष्यति। राज्यसर्वकारेण एतयोः पक्षयोः अधिकाराः केन्द्रसर्वकारस्य नियमानुसारं विनियोजिताः सन्ति।