Himachal News- १४ चिकित्सालयेषु दन्तचिकित्सकाः प्राप्ताः, अनुबन्धाधारेण नियुक्ताः
हिमसंस्कृतवार्ता: – शिमला।राज्यस्य १४ चिकित्सालयेषु दन्तचिकित्सकाः प्राप्ताः। हिमाचलप्रदेश लोकसेवा- आयोगस्य अनुशंसानाम् अनुसरणं कृत्वा स्वास्थ्यविभागेन तेषां नियुक्तीनां विषये अधिसूचना प्रसार्य नूतनस्थानेषु स्थापनं कृतम् अस्ति। अनुबन्धाधारे ते एकवर्षपर्यन्तं प्रतिमासं ३३,६६० रुप्यकाणां वेतनं प्राप्नुयुः। स्वास्थ्यविभागेन निर्गतानाम् आदेशानाम् अन्तर्गतं डॉ. रेणुकाठाकुर निवासी पंजोट: सामुदायिकचिकित्सालय: गगरेटम्, ऊना, डॉ. महक वर्मा निवासी अमरकोट: सामुदायिक- चिकित्सालय: राजपुरम्, सिरमौर:, डाॅ. अनीताठाकुर निवासी पनियाला सामुदायिक- चिकित्सालय: भदसाली, ऊना, डाॅ. रोहिणी चौहान निवासी सदराड़ा सामुदायिकचिकित्सालय: चौपालम् इत्यत्र नियुक्ता: सन्ति।
एवमेव डाॅ. रिशिका डोगरा निवासी धार: सामुदायिकचिकित्सालय: थुरल:, कांगड़ा, डाॅ. आयुषी गौतम निवासी नयानगर सामुदायिकचिकित्सालय: मझीनम्, कांगड़ा, डाॅ. प्रीतीसागर निवासी कस्बा कोटला सामुदायिकचिकित्सालय: रे, कांगड़ा, डाॅ. सचिन तोमर निवासी चौहान- का -बाग ईएसआई- बरोटीवाला, सोलनम्, डाॅ. सृष्टि बजाज निवासी बड़ाघाटं सामुदायिकचिकित्सालय: तलाई, बिलासपुरम्, डाॅ. सचिन सैणी निवासी लोअर अर्नियालां सामुदायिकचिकित्सालय: बीटन, ऊना, डाॅ. हीना निवासी घनागुघाटम् ईएसआई- कसौली, डाॅ. अविनाश यादव: निवासी सस्ती सामुदायिकचिकित्सालय: बरोट:, मंडी डाॅ. आशीष ठाकुर: च निवासी बलद्वाड़ा सामुदायिक- चिकित्सालय: चौलथरा, मंडी इत्येतेषु नियुक्ता: सन्ति। अधुना एतै: प्रमाणपत्राणां सत्यापनानन्तरं प्रदत्तस्थानेषु सेवाः दातव्याः भविष्यन्ति।