Shimla News- लोकनिर्माणमन्त्री बठोरातः ८ कोटिरूप्यकाणां व्ययेन निर्मितानाम् त्रयाणां मार्गानाम् उद्घाटनं कृतवान्
हिमसंस्कृतवार्ता:- शिमला।
राज्यस्य लोकनिर्माण एवं नगरविकास: मंत्री विक्रमादित्यसिंह: शिमलाग्रामीण- विधानसभाक्षेत्रस्य अन्तर्गतं ग्रामपंचायते बागे ८.०६ कोटिरुप्यकाणां व्ययेन निर्मिताणां त्रयाणां सम्पर्कमार्गाणाम् उद्घाटनं कृत्वा हिमाचल- पथ- परिवहननिगमस्य बसयानं हरितध्वजं प्रदर्श्य प्रेषितवान्। अस्मिन् अवसरे देवतासाहेबपन्दोआ इत्यस्य चरणयोः नमस्कारं कुर्वन् सः अवदत् यत् ग्रामपञ्चायतबागस्य अधिकांशं क्षेत्रं पृष्ठे अस्ति, अतः अस्य क्षेत्रस्य ग्रामजनानां कृते मार्गसुविधां प्रदातुं नाबार्डस्य अन्तर्गतं ६ कोटि ५५ लक्षरूप्यकाणां व्ययेन निर्मितः १०.५ किलोमीटरमितं दीर्घ: बाग क्यालूसंपर्कमार्ग:, ६५ लक्षरूप्यकाणां व्ययेन निर्मितः १.५ किलोमीटर दीर्घः बरोटासंपर्कमार्ग:, ८६ लक्षरूप्यकाणां व्ययेन निर्मित: ३.५ किलोमीटरबठोरारा- पनेवटसंपर्कमार्ग: इत्येतेषां निर्माणकार्यं सम्पन्नं कृत्वा उद्घाटनं कृतम्, अनेन पंचायतक्षेत्रस्य जनानां परिवहनार्थं बसयानस्य सुविधा भविष्यति।
सः अवदत् यत् शीघ्रमेव हिमाचल- पथ- परिवहननिगमस्य अधिकारिभ्यः एतेषु त्रयेषु मार्गेषु बसयानानि चालयितुं निर्देशाः प्रदत्ताः भविष्यन्ति येन उद्घाटितेषु त्रिषु मार्गेषु बसयानानि चालयित्वा ग्रामजनानां कृते बससुविधाः प्रदातुं शक्यन्ते। सः अवदत् यत् वर्तमानसर्वकारस्य २ वर्षीयकार्यकालस्य कालखण्डे ग्रामपञ्चायतबागस्य विविधविकासकार्यस्य कृते ४० लक्षरूप्यकाणि स्वीकृतानि सन्ति। सः अवदत् यत् राज्यसर्वकारः नगरक्षेत्रस्य विकासाय अपि च ग्रामीणक्षेत्रस्य विकासाय प्रतिबद्धः अस्ति। दरोगड़ा-दानोघाटी संपर्कमार्गस्य निर्माणकार्यं शीघ्रमेव सम्पन्नं भविष्यति, जनसामान्यं च समर्पितं भविष्यति इति सः अवदत्। सः अवदत् यत् अनुशीलग्रामस्य कृते एक: संपर्कमार्ग: निर्मितः भविष्यति। यस्य कृते विस्तृतपरियोजनाप्रतिवेदनं सज्जीकृतम् अस्ति तथा च एफसीए प्रकरणं कृतम् अस्ति।