पौंगजलबन्ध-विस्थापितानां ६,७३६ परिवाराणां कृते भूमिविनियोगस्य अनुशंसा कृता, समितिः राजस्वमन्त्रिणं प्रति प्रतिवेदनं प्रस्तुतवती
हिमसंस्कृतवार्ता: – शिमला । पौंग जलबाधस्य विस्थापितानां आश्रय-पुनर्वासार्थं सङ्घटितया उच्चस्तरीयसमित्या राजस्व- वानिकी- जनजातीयविकास एवं जनोपालम्भनिवारणमन्त्रिणे जगतसिंहनेगी इत्यस्मै स्वप्रतिवेदनं प्रदत्तम्। समितौ उपायुक्त: (आश्रय: एवं पुनर्वास:) डॉ. संजयकुमारधीमान, अनुमंडल- अधिकारी ज्वाली विचित्रसिंह:, तहसीलदार: देहरा कर्मचंद: कालिया च सम्मिलिता: आसन्। डॉ. संजयकुमारधीमत: अध्यक्षतायां सङ्घटितया उच्चस्तरीयसमित्या ६,७३६ परिवारेभ्यः भूमिविनियोगस्य प्रतिवेदनं अनुशंसितम् अस्ति। एतदतिरिक्तं आधारभूतसंरचनासम्बद्धसमस्यानाम् अन्यसुविधानां च उपालम्भनिवारणकोष्ठस्य स्थापनाया: अपि परामर्श: कृत: अस्ति। डॉ. संजयकुमारधीमानः अवदत् यत् पौंगजलबन्धविस्थापितानां आश्रयार्थं पुनर्वासार्थं च १८ अक्तूबर दिनाङ्के धर्मशालायां राज्यस्तरीयसभायाः आयोजनं कृतम्। सः अवदत् यत् पौंगजलबन्धेन विस्थापितानां ६७३६ परिवाराणां कृते राजस्थाने भूमिः आवंटनीया अस्ति। समितिः २०२४ तमस्य वर्षस्य अक्तूबरमासस्य २५ दिनाङ्कात् २७ अक्तूबरपर्यन्तं राजस्थानस्य रामगढ- जैसलमेर- मोहनगढ- नाचना- स्थानानां भ्रमणं कृत्वा विस्थापितानां परिवाराणां कृते चिह्निताया: भूमे: निरीक्षणं कृतवती। सः अवदत् यत् अस्मिन् काले राजस्थानसर्वकारस्य प्रशासनिकाधिकारिणः अपि उपस्थिताः आसन्।