Solar Energy : आगामिषु ६ मासेषु हिमाचलं ५० मेगावाट् सौर ऊर्जायाः दोहनं करिष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः ऊर्जाविभागस्य वरिष्ठाधिकारिभिः सह समीक्षासभां कृतवान्। सभायां सः राज्ये सौर ऊर्जायाः उत्पादनं वर्धयितुं आवश्यकतां बोधितवान्। ऊना-मण्डलस्य पेखुबेलायां ३२ मेगावाट-सौर-विद्युत्परियोजना स्थापिता, कुटलैहड़-विधानसभाक्षेत्रे १० मेगावाट- सौरविद्युत्परियोजनाया: निर्माणं प्रचलति, गगरेटविधानसभाक्षेत्रे ५ मेगावाट- सौरविद्युत्- परियोजनाया: निर्माणं प्रचलति इति सः अवदत्। राज्यम् आगामिषु षड्मासेषु प्रायः ५० मेगावाट सौर ऊर्जायाः दोहनं सुनिश्चितं करिष्यति। सः सौर ऊर्जा परियोजनानां कार्यं शीघ्रं कृत्वा समयनिर्धारितरूपेण सम्पन्नं कर्तुं तथा च नूतनानां परियोजनास्थलानां परिचयं कर्तुं अधिकारिभ्यः निर्देशं दत्तवान्।
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यस्य जनानां सौर ऊर्जा-उत्पादनक्षेत्रे प्रोत्साहनं क्रियते येन राज्यस्य जनाः एताभ्यः परियोजनाभ्यः आजीविकाम् अर्जयितुं शक्नुवन्ति। सः अवदत् यत् एताः परियोजनाः हिमाचालवासिभ्यः आबंटिताः भविष्यन्ति, राज्यस्य जनाः च सौर ऊर्जापरियोजनानां स्थापनायै प्रोत्साहिताः भविष्यन्ति। मुख्यमन्त्री उक्तवान् यत् विद्युत्-याचना निरन्तरं वर्धमाना अस्ति, अतः जल-शक्त्या सह सौर-ऊर्जायाः अधिकतमं दोहनं सुनिश्चितं क्रियते। सौर ऊर्जा पर्यावरणस्य अनुकूलः नवीकरणीयः ऊर्जायाः स्रोतः अस्ति। एतेन कार्बन-उत्सर्जनं न्यूनीकर्तुं शक्यते, जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं शक्यते च। सौरशक्तिपरियोजनानां परिपालनं सुलभतया कर्तुं शक्यते, दीर्घायुषः च भवति। २०२६ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं हिमाचलप्रदेशं हरित ऊर्जाराज्यरूपेण स्थापयितुं प्रतिबद्धतां पुनः उक्त्वा मुख्यमन्त्री उक्तवान् यत् एतत् लक्ष्यं प्राप्तुं राज्यसर्वकारः हरित-उद्योगानाम् प्रचारं करोति। सः अवदत् यत् वर्तमानकाले जलवायुपरिवर्तनं विश्वे सर्वाधिकं आव्हानं वर्तते, राज्यसर्वकारः हरितपरिकल्पनाद्वारा वैश्विकतापस्य प्रभावं न्यूनीकर्तुं कार्यं कुर्वन् अस्ति। राज्यसर्वकारः ई-वाहनानां संचालनं प्रवर्धयति। हिमाचलपथपरिवहननिगमस्य बसयानानि इलेक्ट्रॉनिकबससमूहे परिणमयन्ते।