ED Raid : निजीचिकित्सालयानाम् तुलनापत्राणां अन्वेषणं कुर्वन्नस्ति प्रवर्तननिदेशालय:
अधुना स्वास्थ्यविभागस्य अभिलेखैः सह प्रतिपरीक्षणं करिष्यति अन्वेषणसंस्था।
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
प्रवर्तननिदेशालय: अनुकृत- आयुष्मानपत्रस्य कारणेन कोटिरूप्यकाणां वञ्चनप्रकरणे निजीचिकित्सालयानां तुलनापत्रस्य अपि अन्वेषणं करिष्यति। ईडी निजीचिकित्सालयानां तुलनपत्राणां स्वास्थ्यविभागस्य अभिलेखैः सह प्रतिपरीक्षणं (क्रॉस मैच) करिष्यति। निजीचिकित्सालयेषु अन्वीक्षणे प्रवर्तननिदेशालयेन स्वास्थ्ययोजनानां बहवः अभिलेखा: ग्रहीता: सन्ति। अनुकृत-आयुष्मानपत्रस्य कारणेन कोटिरूप्यकाणां वञ्चनप्रकरणे अपि ईडी अभियुक्तेभ्य: प्रश्नोत्तरं करिष्यति। प्रवर्तन- निदेशालयेन अभियुक्तानां प्रश्नोत्तरस्य समये अनुकृत- आयुष्मानपत्रस्य कारणेन कोटिरूप्यकाणां वञ्चनप्रकरणेन सह सम्बद्धाः बहवः महत्त्वपूर्णाः पटाक्षेपा: भवितुं शक्नुवन्ति। ईडी चिकित्सालयानाम् सम्पत्तिषु अपि अन्वेषणं कुर्वन् अस्ति। आयुष्मानयोजनायाः अद्यावधि ईडी-संस्थायाः अन्वेषणस्य अनुसारम् अस्मिन् प्रकरणे प्रायः २५ कोटिरूप्यकाणाम् अपराध-आयः सम्मिलितः अस्ति। गतसप्ताहे बुधवासरे प्रवर्तन- निदेशालयेन दिल्ली, चण्डीगढं, पञ्जाब: तथा हिमाचलप्रदेशस्य काङ्गड़ा, ऊना, शिमला, मण्डी, कुल्लू च जनपदेषु धनशोधननिवारणविधानस्य २००२ इत्यस्य प्रावधानानाम् अन्तर्गतं २० स्थानेषु निरीक्षणं कृतम् आसीत्। ईडी इत्यनेन निरीक्षणं कृत्वा ८८ लक्षरूप्यकाणि नगदं, चत्वारि बैंकलॉकर, १४० सम्बद्धा: वित्तकोषसंख्या: ग्रहीता: आसन्। एतस्य अतिरिक्तं ईडी इत्यनेन अचल-चलसम्पत्तयः, खातापुस्तकानि इत्यादीनि अभिलेखानि च अतिरिक्तं मोबाईलफोन/ आइपैड, हार्डडिस्क, पेन ड्राइव इत्यादिरूपेण १६ डिजिटल-उपकरणाः अपि स्वाधीकृता: सन्ति इदानीं ईडी एतेषां उपकरणानां, वित्तकोषसंख्यानां च अभिलेखानां परीक्षणं कुर्वन् अस्ति।
आयुष्मानस्य अनन्तरं हिमकेयरस्य अन्वेषणं भविष्यति
आयुष्मानयोजनायाः अनन्तरं ईडी हिमकेयरयोजनायाः अभिलेखानां अपि निरीक्षणं करिष्यति। सम्प्रति ईडी अनुकृत- आयुष्मानपत्रस्य कारणेन कोटिरूप्यकाणां वञ्चनप्रकरणे चिकित्सालयानां सम्पत्ति: अभिलेखानाम् अन्वेषणं कुर्वन् अस्ति। अभियुक्तैः अवैधरूपेण कियत् धनं प्राप्तम् इति प्रवर्तननिदेशालयेन ज्ञायते।