Himsanskritnews Headlines: विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- क्रीडामन्त्री मनसुख् माण्डविया अवदत् यत् भारतीय-ओलिम्पिक्-सङ्घः विश्व-मल्लयुद्ध- सङ्घस्य समक्षं, प्यारिस्-ओलिम्पिक्-क्रीडायां मल्लयुद्धे विनेश फोगाट्-इत्यस्याः अयोग्यतायाः विरुद्धं विरोध-प्रत्यावेदनम् अकरोत् ।
- राष्ट्रपतिः द्रौपदी मुर्मू, गवर्नर् जनरल् डेम् सिण्डी किरो इत्यस्याः निमन्त्रणेन, बुधवासरे अपराह्णे द्विदिवसीय यात्रार्थं न्यूजीलैण्ड्देशस्य आक्लैण्ड्-नगरम् गतवती।
- वित्तमन्त्री निर्मलासीतारमण उक्तवती यत् विगत-दश-वर्षेषु प्रशासनेन पारदर्शकरूपेण कराधान-परिवर्तनानि कृतानि ।
- बाङ्ङ्गलादेशे शीर्षस्तरीय-सेनायाः महत्तरं परिवर्तनं कृत्वा, नूतन-अधिकारिणः देशस्य आरक्षि-बलस्य पुनर्गठनं कृतवन्तः ।
- नेपालदेशे, बागलुंग, गुम्लि जनपदयोः, जलप्लावैः, भूस्खलनेभ्यश्च द्वादशजनाः मृताः।
- भारतीय-ऋतु-विज्ञान-विभागेन अनुमानितं यत् आगामिषु चतुर्दिवसेषु हिमाचलप्रदेशे- उत्तराखण्डे च भूरिशः वृष्टिः भविष्यति ।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः ऊर्जाविभागस्य वरिष्ठाधिकारिभिः सह समीक्षासभां कृतवान्। सभायां सः राज्ये सौर ऊर्जायाः उत्पादनं वर्धयितुं आवश्यकतां बोधितवान्। स: अवदत् यत् आगामिषु ६ मासेषु हिमाचलं ५० मेगावाट् सौर ऊर्जायाः दोहनं करिष्यति।
- प्रवर्तननिदेशालय: अनुकृत- आयुष्मानपत्रस्य कारणेन कोटिरूप्यकाणां वञ्चनप्रकरणे निजीचिकित्सालयानां तुलनापत्रस्य अपि अन्वेषणं करिष्यति। ईडी निजीचिकित्सालयानां तुलनपत्राणां स्वास्थ्यविभागस्य अभिलेखैः सह प्रतिपरीक्षणं (क्रॉस मैच) करिष्यति।
- हिमाचलप्रदेशस्य विधानसभाध्यक्षः कुलदीपसिंहपठानिया विधानसभा- सचिवालयस्य समितीनां कार्यकरणं सुदृढं, तर्कसंगतं, प्रभावी च भवतु एतदर्थं मुख्यसमितिकक्षे समितीनां अधिकारिभिः सह गोष्ठीं कृतवान्। विधानसभासमित्याः सदस्याः डिजिटलरूपेण सभासु सम्मिलितुं शक्नुवन्ति, सभापतिः अधिकारिभ्यः निर्दिष्टवान्।
- हिमाचलप्रदेशे छात्राणां शून्यसंख्यायुक्तानां ९९ विद्यालयानां तथा च ४६८ विद्यालयानां चतुर्थश्रेणीकर्मचारिणां, बहूद्देश्यीयकर्मचारिणां, जलवाहकानां च प्रतिस्थापनस्य प्रक्रिया अन्येषु समीपस्थेषु विद्यालयेषु आरब्धा अस्ति। बुधवासरे प्राथमिकशिक्षानिदेशालयेन सर्वेभ्यः जिला-उपनिदेशकेभ्यः पत्रं निर्गतं, अन्यत्र कर्मचारिणां नियुक्तिः कर्तुं निर्देशाः प्रसारिताः।