हिमाचले ऋतुपरिवर्तनम् – ४७५ मार्गाः निरुद्धा;, कुल्लु-मनाली-क्षेत्रयोः अद्य विद्यालयाः पिहिता:
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशे नारङ्गवर्णीयसचेतनाया: मध्ये रविवासरे पञ्चमदिनपर्यन्तं वर्षा, हिमपातः च अभवत् । राजधानी शिमलासहितेषु निम्नस्थेषु क्षेत्रेषु आदिनं प्रचण्डवृष्टिः अभवत् । स्थूलेन हिमस्तरेन शिखराणि आच्छादितानि सन्ति । राज्यस्य चतुर्णां राष्ट्रियराजमार्गाणां सहितं ४७५ मार्गेषु अद्यापि यातायातं स्थगितम् अस्ति । राज्ये ३३३ विद्युत् परिवर्तकानाम् बन्दीकरणेन अनेकेषु क्षेत्रेषु विद्युत् विफलता वर्तते। कुल्लु-लाहौलक्षेत्रयोः नूतन-हिमपातस्य अनन्तरं पुनः अटल-कन्दरा-रोहताङ्गं यातायातस्य कृते अवरुद्धम् अस्ति । कन्दराया: परितः ४५ से.मी.पर्यन्तं हिमपातः अभवत् । अवधेयं वर्तते यत् दिवसद्वयात् पूर्वं बीआरओ इत्यनेन हिमम् अपसारयित्वा आपत्कालीनसेवायै कन्दराया: पुनर्स्थापनम् कृतम् आसीत् । प्रतिकूलवातावरणस्य कारणात् अद्य कुल्लू-मनाली-क्षेत्रयोः विद्यालयाः अन्ये च शैक्षणिकसंस्थानि पिहितानि एव भविष्यन्ति ।
अटलकन्दरा यातायातस्य कृते अवरुद्धा
अटलकन्दरारोहताङ्गस्य दक्षिणद्वारे प्रायः सप्त इञ्च् यावत् नवीन: हिमपातः अभवत् । नवीनहिमपातस्य कारणात् अटलकन्दरां प्रति कोऽपि वाहनस्य अनुमतिः नास्ति । नेहरूकुण्डं प्रति पर्यटनवाहनानि प्रेष्यन्ते। मनालीनगरे हिमपातः निरन्तरं वर्तते। मनाली-नगरस्य समीपस्थेषु ग्राम्यक्षेत्रेषु ४ इञ्च् यावत् नवीनहिमपातः अभवत् । प्रशासनेन पर्यटकानाम्, यात्रिकाणां च कृते आह्वानं कृतम् यत् ते प्रतिकूले वातावरणे यात्रां न कुर्वन्तु।
ऋतुविज्ञानकेन्द्रशिमला ५ फरवरीपर्यन्तं मध्य-उच्चपर्वतीयजनपदेषु अनेकेषु क्षेत्रेषु वर्षा, हिमपातः च भविष्यति इति पूर्वानुमानं कृतम् अस्ति । समतलेषु वर्षा सम्भवति । रविवासरे कुल्लू, चम्बा, शिमला, किन्नौरं, लाहौल-स्पीति-जनपदेषु प्रचण्डहिमपातस्य पीत-सचेतना आसीत् ।
राज्यस्य समतल/नीचपर्वत-मध्यपर्वत-जनपदेषु केषुचित् स्थानेषु वज्रपातस्य, विद्युत्प्रवाहस्य च सम्भावना वर्तते । यत्र तु ६ फेब्रुवरी दिनाङ्के उच्चपर्वतेषु एकस्मिन् वा द्वयोः वा स्थानेषु वर्षा, हिमपातः च भवितुम् अर्हति । ७ फेब्रुवरीतः सम्पूर्णे राज्ये वातावरणं स्वच्छं एव भविष्यति इति अपेक्षा अस्ति।